________________
रूपसेन
॥ ३२ ॥
I
पुनस्ताः स्मितस्मेर - विभ्रमभ्रमितेक्षणाः ॥ १२ ॥ अहोऽस्या हम्वातुरी ! विदग्धवनितायाश्च । संगमेनापि यत्सुखं ॥ क तत्प्राकृतनारीणां । गाढालिंगनचुंबनैः ॥ १३ ॥ अथैतयोर्दुरस्थयोरपि रविराजीवयोरिव परस्परं विलोकयतोः कोऽपि नव्यः स्नेहरसः प्रादुर्बभूव यतः — दूरस्थोऽपि न दूरस्थो । यो वै मनसि वर्तते ॥ हृदयादपि निष्कांतः । समीपस्थोऽपि दूरगः ॥ १४ ॥ अथ कुमारो दध्यौ, चेदस्याः कन्यायाः पाणिग्रहणं मया सह स्यात्तदा मम पुण्योदय एव, कथमप्येकवारमपि चेत्तया सह मिलनं स्यात्तदापि मे भाग्योदयः परं तत्सर्वं मे मनोवांछितं प्राक्तनपुण्येनैव जिनधर्मप्रसादाच्च भविष्यति यतः - जिनधर्म विना नृणां । न स्युर्वांछित सिद्धयः | सूर्यं विना न कोऽपि स्या - द्राजीवानां विकासकः ॥ १७ ॥
अथ सा कनकवती स्वमनसि चिंतयति, नूनमस्य वैदेशिकस्य विद्यावतः कापि कला यदि भवि व्यति, तदा स स्वयमेव कयापि बुध्ध्या केनाप्युपायेनात्र मम पार्श्वे समागमिष्यतीति चिंतयंती सा चक्रवाकीव तमेव ध्यायंती तस्थौ. अथ रूपसेनकुमारस्तत्सकलमपि दिनमतिवाह्य सायं सज्जीभूय लोकप्रचाररहितायां रात्रौ पादुकाप्रयोगेणाकाशमार्गेण तस्या कनकवत्या मंदिरे प्राप्तः तदा देवकुमारसदृशं तमेव तत्रागतं विलोक्य राजकुमारी ससंभ्रमं समुत्थिता. यतः - संभ्रमः स्नेहमाख्याति । देशमाख्याति
चरित्रम्
॥ ३२ ॥