________________
रूपसेन
॥ ३१ ॥
साऽवदत्तदहं सम्यग् न जानामि अथैवं वार्तां कुर्वतोस्तयोः कनकवत्या तद्गृहसन्मुखं तदेव द्वारमुद्घाटितं. तदा कुमारोऽपि हृष्टः, यत उत्तमानां मनोरथास्तु चिंतितमात्रा एव सिध्ध्यंति यतः — रे चित्त | खेदमुपयासि मुधा किमत्र | रम्येषु वस्तुषु मनोहरतां गतेषु || पुण्यं कुरुष्व यदि तेषु तवास्ति वांछा । पुण्यैर्विना न हि भवंति समीहितार्थाः ॥ ९ ॥
अथ शुभपुण्यकर्मयोगेन भवितव्यतया च तस्याः कुमार्या दृष्टिः कुमारोपरि पतिता, तेन कुमारस्यापि हर्षो जातः अथ तां दृष्ट्वा कुमारेण चिंतितमहो अस्या रूपनिर्माणं! अथ तयोर्नेत्रमिलनतः परस्परं स्नेहः समुत्पन्नः अथ कनकवत्या मनसि चिंतितं मत्पिता मदर्थं सर्वदा वरं गवेषयति, परं तादृशो योग्यो वरो न लभ्यते, परं दैवयोगेन चेदसो महापुरुषो मम वरः स्यात्तदैव मे जन्म सफलं, मम मनस्त्वनेनैवाद्य हृतमस्ति अतोऽस्मिन् जन्मनि तु ममैष एव स्वामी भवतु, अन्यथा मम मरणमेव शरणं. अथ ममैनमभिलाषमहं कस्याग्रे कथयामि ? यतः - सो कोवि नत्थि सुजणो । जस्स कहिजंति हिअयदुक्खाई ॥ हियए उपभंति उक्कंठे । पुणोवि हियए विलिज्जति ॥ ११ ॥ ततः प्राग्भवस्नेहनिबंधनेन कुमारस्य मानसेऽपि तथैवाभिलाषो जातः, यतः - दृष्टाश्विनेऽपि चेतांसि । हरंति हरिणीदृशः ॥ किं
चरित्रम्
॥ ३१ ॥