________________
रूपसेन
॥ १६ ॥
| त्वं मार्गे सावधानो भूयाः ? इत्युक्त्वा तेनाशीर्वादो दत्तः, यथा - तव वर्त्मनि वर्ततां शिवं । पुनरस्तु त्वरितं समागमः ॥ अथ साधय साधयेप्सितं । स्मरणीयाः समये वयं वयं ॥ ६० ॥ अथ कुमारो ब्राह्मणंप्रति जगौ भो द्विज त्वया राजगृहे कस्याप्यग्रे मम स्वरूपं न कथनीयं, इत्युक्त्वा तं दक्षिणां दत्वा विसृष्टवान्. अथ रूपसेनकुमारो मनसि चिंतयति नूनं सत्त्वमेव मनुष्याणां श्रेयस्करं, यतः - सत्त्वाद्वर्षति पर्जन्याः । सत्वात्सिद्धयंति देवताः ॥ सत्वेन धार्यते पृथ्वी । सर्वं सत्वे प्रतिष्टितं ॥ ६१ ॥ इति विचार्य | स पंचपरमेष्टिनमस्कारमेव हृदि ध्यायन्नग्रे चलितः यतः - नमस्कारसमो मंत्रः । शत्रुंजयसमो गिरिः ॥ वीतरागसमो देवो । न भूतो न भविष्यति ।। ६२ ।। इति ध्यायतस्तस्याग्रे गच्छतः शुभाः शकुना जाताः यतः - कालुं हरण होलाहीउं । वायस कुक्कर मोर ॥ ए लीजें डाबां भलां । जेथी नावे चोर ॥ ॥ ६३ ॥ जंबूचासवरक्खे | भारंडाए तहेव नूले अ ॥ दंसणमेव पसत्थं । पयाहिणे सब संपत्ती ॥ ६४ ॥ अथ तस्य रूपसेनकुमारस्य गच्छतो नकुलः प्रदक्षिणो जातः, एवं गच्छन् स क्रमेण वनपर्वतमालाश्चोघयामास. अथ मध्याह्नसमये तस्यातीवतृड् लग्ना. तेन स चिंतयामास, अहो विदेशे महाकष्टानि, वनं रौद्रं भयं तीव्रं । तृषा मां बाधतेऽधिकं । पादाभ्यां गमनं कष्टं । गंतव्यं शतयोजनीं ॥ ६५ ॥ अग्रे गच्छन्
1
चरित्रम्
॥ १६ ॥