________________
रूपसेन
।। १५ ।।
पुनरुक्तं, हे कुमार विदेशा विषमाः संति, त्वं च सरलः सुकुमारोऽसि कुमारः प्राह धीराणां किं विषमं ? यतः कोऽतिभारः समर्थानां । किं दूरं व्यवसायिनां ॥ को विदेशः सविद्यानां । कः परः प्रियवादिनां ॥ ५७ ॥ तेन भो द्विज त्वं कनकपुरनगरस्य प्राध्वरं मार्गे मे दर्शय ? यदहं तत्र गंतुमिच्छामि द्विजः प्राह भो कुमार स मार्गस्त्वत्यंतं विषमोऽस्ति, तत्र च भूरि भयं वर्तते, तेन त्वं तत्र मा गच्छ ? कुमारेणोक्तं तस्मिन् मार्गे कस्य भयं वर्तते तन्मे कथय ? तेनोक्तं तर्हि शृणु ? इतो दूरे मार्गे एवैको महान् वटोऽस्ति स वटवृक्षश्च शाखा प्रशाखापत्र पुष्पादिभिरलंकृतोऽस्ति, किंच तस्यैकैका शाखा योजनाप्रमा णास्ति. चतुर्दिक्षु तासु चतसृषु शाखासु च विद्यासिद्धाश्चत्वारो योगिनो वसंत.
तेषां चतुर्णां योगिनां दृष्टौ त्वया न गंतव्यं, यतस्ते मनुष्याणामुपद्रवकारिणः संति तेन च त्वया| न्यमार्गेणान्यस्मिन्नेव नगरे गंतव्यं तत् श्रुत्वा कुमारः प्राह भो द्विज तस्मिन् मार्गे गमने मम चेतसि किंचिदपि भयं नास्ति, यतो मे तु पुण्यमेव शरणमस्ति उक्तं च-वने रणे शत्रुजलाग्निमध्ये | महापर्वतमस्त वा ॥ सुप्तं प्रमत्तं विषमस्थितं वा । रक्षति पुण्यानि पुराकृतानि ॥ ५८ ॥ जिनैर्निरू| पिते धर्मे । न चलत्यत्र यन्मनः ॥ शूरास्त एव तेषां च । रक्षां कुर्वति देवताः ॥ ५९ ॥ द्विजेनोक्तं तर्हि
चरित्रम्
।। १५ ।।