________________
150॥
स्वर्णस्येवाग्निसम्पातो दिष्टया मे विपदप्यभूत्
यल्लेभेऽद्य मयाऽनयं परमेष्ठिमयं महः एवं शमरसोल्लास पूर्वं श्रुत्वा नमस्कृतिम् निहत्य क्लिष्ट कर्माणि सुधी श्रयति सदतिम्
उत्पद्योतम देवेषु विपुलेषु कुलेष्वपि अन्तर्भवाष्टकं सिद्धः स्यात्रमस्कार भक्तिभाक्
151।।
152॥
||1||
॥2॥
सप्तम प्रकाशः सदा नामाकृति द्रव्य भावैस्त्रैलोक्यपावनाः क्षेत्रे काले च सर्वत्र शरणं मे जिनेश्वराः
तेऽतीताः केवलज्ञानि प्रमुखा ऋषभादयः
वर्तमानाभविष्यन्तः पद्मनाभादयो जिनाः सीमन्धराद्या अर्हन्तो विहरन्तोऽथ शाश्वताः चन्द्रानन वारिषेण वर्धमानर्षभाश्च ते
॥3॥ संख्यातास्ते वर्तमानाः अनन्तातीत भाविनः सर्वेष्वपि विदेहेषु भरतैरावतेषु च
॥4॥ ते केवलज्ञान विकाश भासुराः निराकृताष्टादशदोष विप्लवाः असंख्य वास्तोष्पति वन्दितांग्रयः सत्प्रातिहार्यातिशयैः समाश्रिताः ॥5॥
जगत्त्रयीबोधिद पंचसंचुत त्रिंशद्गुणालंकृत देशनागिरः
अनुत्तरस्वर्गीगणैः सदा स्मृताः अनन्यदेयाक्षर मार्गदायिनः ॥6॥ दुरितं दूरतो याति साधिर्व्याधि प्रणशयति दारिद्रय मुद्रा विद्राति सम्यग्दृष्टे जिनेश्वरे
॥7॥ निन्द्येन मांसखण्डेन किं तया जिहया नृणाम्
माहात्म्यं या जिनेंद्राणां, न स्तवीति क्षणे क्षणे ॥8॥ अर्हच्चरित्र माधुर्य सुधास्वादानभिज्ञयोः कर्णयोश्छिद्रयोर्वाऽपि स्वल्मप्यस्ति नान्तरम्
॥9॥
305