________________
|॥22॥
॥27॥
किं तपः श्रुत चारित्रैः चिरमाचरितैरपि
सखे ! यदि नमस्कारे मनो लेलीयते न ते ? योऽसंख्य दुःखक्षय कारणस्मृतिर्य ऐहिकामुष्मिक सौख्य कामधुक् या दुष्मायामपि कलापादपो, मन्त्राधिराजो स कथं न जप्यते ॥23॥
न यद्दीपेन सूर्येण चन्द्रेणाप्यपरेण वा तमस्तदपि निर्नाम स्यात्रमस्कार तेजसा
॥24॥ कृष्णशाम्बादिवद् भावनमस्कार परोभव मा वीर पालक न्यायात् मुधाऽऽत्मानं विडम्बय
॥25॥ यथा नक्षत्र मालायां स्वामी पीयुष दीधितिः तथा भावनमस्कारः सर्वस्यां पुण्यसंहतो
।।26॥ जीवेनाकृतकृत्यानि विना भावनमस्कृतिम् गृहितानि विमुक्तानि द्रव्यलिंगान्यनन्तशः
अष्टावष्टौ शतान्याष्ट सहस्त्राण्यष्ट कोटयः विधि ध्याता नमस्काराः सिध्धयेऽन्त र्भवत्रयम्
॥28॥ धर्मबान्धव निश्छद्म पुनरुक्तं त्वमर्थ्यसे संसारार्णव बोहित्थे मात्र मन्त्रे श्लथो भव
अवश्यं यदसौ भाव नमस्कारः परं महः स्वर्गापवर्गेसन्मागर्दै दुर्गति प्रलयानिलः
॥30॥ शिवतातिः सदासम्यक् पठितोगुणितः श्रुतः समनुप्रेक्षितो भव्यैर्विशिष्याऽऽराधना क्षणे
॥31॥ प्रदीप्ते भवने यद्वच्छेषं मुक्तवा गृही सुधीः
गृह्णात्येकं महारत्नमापन्निस्तारण क्षमम् आकालिक रणोत्पाते यथा कोऽपि महाभटः अमोघमस्त्रमादते सारं दम्भोलि दण्डवत्
एवं नाशक्षणे सर्व श्रुतस्कन्धस्य चिन्तने प्राये न क्षमो जीवस्तस्मात्तद्गत मानसः
॥34॥ द्वादशांगोपनिषदं परमेष्ठि नमस्कृतिम् धीरधीः सल्लसल्लेश्यः कोऽपि स्मरति सात्विकः
॥35॥
|॥29॥
॥32॥
॥33॥
303