________________
૨૮
પાતંજલ યોગસૂત્ર ભાગ-૨ | વિભૂતિપાદ | સૂત્ર-૧૦
અવતરણિકા:
सिद्ध्यन्तरमाह - અવતરણિકાર્ય :
યોગીને થતી=ધારણા, ધ્યાન અને સમાધિમાં યત્ન કરવાથી યોગીને થતી, અન્ય સિદ્ધિને પતંજલિઋષિ બતાવે છે -
सूत्र:
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥३-१७॥ सूत्रार्थ :
श६, गर्थ मने प्रत्ययना=गौः मे प्रारना श६ना, गौः मे प्रारना वाय्य गर्थना અને શબ્દથી અને સાર્થથી થતા : એ પ્રકારના બોધરૂપ પ્રત્યયના, ઇતર ઇતર અધ્યાસથી સંકર થાય છે, તેના પ્રવિભાગમાં સંયમ કરવાથી=શબ્દના, અર્થના અને પ્રત્યયના પ્રવિભાગમાં संयम रवाथी, सर्व प्राणीमोना शविषय ज्ञान थाय छे. ||3-१७|| टीs: ___ 'शब्दार्थेति'-शब्दः श्रोत्रेन्द्रियग्राह्यो नियतक्रमवर्णात्मा नियतैकार्थप्रतिपत्त्यवच्छिन्नः, यदि वा क्रमरहितः स्फोटात्मा शास्त्रसंस्कृतबुद्धिग्राह्यः, उभयथाऽपि पदरूपो वाक्यरूपश्च तयोरेकार्थप्रतिपत्तौ सामर्थ्यात्, अर्थो जातिगुणक्रियादिः, प्रत्ययो ज्ञानं विषयाकारा बुद्धिवृत्तिः, एषां शब्दार्थज्ञानानां व्यवहार इतरेतराध्यासाद्भिन्नानामपि बुद्ध्यैकरूपतासम्पादनात् सङ्कीर्णत्वम् तथाहि-गामानयेत्युक्ते कश्चिद् गोलक्षणमर्थं गोत्वजात्यवच्छिन्नं सास्नादिमत्पिण्डरूपं शब्दं च तद्वाचकं ज्ञानं च तद्ग्राहकमभेदेनैवाध्यवस्यति, न त्वस्य गोशब्दो वाचकोऽयं गोशब्दस्य वाच्यस्तयोरिदं ग्राहकं ज्ञानमिति भेदेन व्यवहरति । तथाहिकोऽयमर्थः ? कोऽयं शब्दः ? किमिदं ज्ञानमिति पृष्टः सर्वत्रैकरूपमेवोत्तरं ददाति गौरिति, स यद्येकरूपतां न प्रतिपद्यते कथमेकरूपमुत्तरं प्रयच्छति, एकस्मिन् स्थिते योऽयं प्रविभागइदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम, इदमर्थस्य यद्वाच्यत्वमिदं ज्ञानस्य यत्प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन् प्रविभागे यः संयमं करोति तस्य सर्वेषां भूतानां मृगपशुपक्षिसरीसृपादीनां यद्रुतं यः शब्दः, तत्र ज्ञानमुत्पद्यतेऽनेनैवाभिप्रायेणैतेन प्राणिनाऽयं शब्दः समुच्चारित इति सर्वं जानाति ॥३-१७॥