SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ૨૩૮ પાતંજલયોગસૂત્ર ભાગ-૨ | પરિશિષ્ટ योगसूत्राणि तृतीयः विभूतिपादः ॥ पृष्ठम् सूत्रम् देशबन्धश्चित्तस्य धारणा ॥३-१॥ तत्र प्रत्ययैकतानता ध्यानम् ॥३-२॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥३-३॥ त्रयमेकत्र संयमः ॥३-४।। तज्जयात् प्रज्ञालोकः ॥३-५॥ तस्य भूमिषु विनियोगः ॥३-६।। त्रयमन्तरङ्गं पूर्वेभ्यः ॥३-७॥ तदपि बहिरङ्ग निर्बीजस्य ॥३-८।। व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥३-९॥ तस्य प्रशान्तवाहिता संस्कारात् ॥३-१०॥ सर्वार्थैकाग्रतयोः क्षयोदयौ चित्तस्य ततः पुनः समाधिपरिणामः ॥३-११।। शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥३-१२।। एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥३-१३।। शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥३-१४।। क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥३-१५॥ परिणामत्रयसंयमादतीतानागतज्ञानम् ॥३-१६॥ शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥३-१७॥
SR No.022736
Book TitlePatanjalyog Sutra Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2011
Total Pages272
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy