________________
33
ઉપમિતિભવપ્રપંચા કથા ભાગ-૫ | ચતુર્થ પ્રસ્તાવ नागतास्तेऽत्र मकरध्वजराज्ये? विमर्शेनोक्तं-वत्स! समागता एव तेऽत्र भवचक्रनगरे, न संदेहो विधेयः, किं तु निवेदितमेव मया यथाऽऽविर्भावतिरोभावधर्मकाः खल्वेतेऽन्तरङ्गलोकाः, ततस्ते द्वेषगजेन्द्रशोकादयोऽत्रैव तिरोभूतास्तिष्ठन्ति, राज्ञः सेवावसरमपेक्षन्ते । एते तु महामोहादयो लब्धावसरतया राज्ञः सभायामाविर्भूताः स्वनियोगमनुशीलयन्ति, किं तु प्रचण्डशासनः खल्वेष मकरध्वजनरेन्द्रः ततोऽस्य राज्ये यस्य यावानियोगस्तेन तावाननुष्ठेयः, यस्य यावन्माहात्म्यं तेन तावद्दर्शनीयं, यस्य यावद्यदाऽऽभाव्यं तेन तावत्तदैव ग्राह्यं नाधिकमूनं वा, तथाहि-यदयं लोलाक्षो राजा सहाशेषराजवृन्देन निखिललोकाश्च जिता अप्यनेन मकरध्वजेन न जानन्ति, सपरिकरमेनं बन्धुभूतं मन्यन्ते, तदिदं महामोहेन विहितमयमेवास्य नियोगोऽत्रैव माहात्म्यमिदमेवास्याभाव्यमिति । यत्पुनरेते लोकाः प्रीतिमुद्वहन्तो वल्गन्ते कृतकृत्यमात्मानमवगच्छन्ति तदिदं रागकेसरिणा जनितं, अस्यैव च नियोगमाहात्म्याभाव्यगोचरभूतम् । यत्पुनरेते लोकाः प्रीतिमुद्वहन्तो वल्गन्ते कृतकृत्यमात्मानमवगच्छन्ति तदिदं रागकेसरिणा जनितं, अस्यैव च नियोगमाहात्म्याभाव्यगोचरभूतम् । यत्पुनरेते लुभ्यन्ति शब्दादिषु कुर्वन्ति विकारशतानि, तदिदं विषयाभिलाषस्य विजृम्भितं नियोगादिकं च, यत्पुनरट्टहासैर्हसन्ति, दर्शयन्ति बिब्बोकान् इदं हास्यस्य विलसितं, एवं तत्पत्नीनामपि यथार्ह शेषाणामपि नरपतीनां च डिम्भरूपाणां च नियोगमाहात्म्याभाव्यग्रहणव्यापाराः प्रतिनियता एव द्रष्टव्याः । यत्पुनरमी जनाः शब्दादिकं भोगजातमुपभुञ्जते, सहर्षमनुकूलयन्ति कलत्राणि, चुम्बन्ति तेषां वक्त्राणि, समाश्लिष्यन्ति गात्राणि, सेवन्ते मैथुनानि, तत्रैवमादिके कर्मणि नैष मकरध्वजराजोऽन्यस्य नियोगं ददाति, किं तर्हि ? रत्या सह स्वयमेव कुरुते, यतोऽस्यैव तत्र कर्मणि सामर्थ्य नान्यस्येति । तदेवं वत्स! विद्यन्ते तत्र द्वेषगजेन्द्रशोकादयः, केवलं स्वकीयं नियोगावसरं प्रतीक्षन्ते, तेन नाविर्भवन्ति, प्रकर्षेणोक्तंयद्येवं ततः किं शून्यीभूतोऽधुना चित्तवृत्तौ स महामोहास्थानमण्डपः? विमर्शेनोक्तं-नैतदेवं, निवेदितमेव तुभ्यं, कामरूपिणः खल्वमी अन्तरङ्गजनाः, ततः समागताः सर्वेऽप्यत्र मकरध्वजराज्ये तथापि तन्महामोहास्थानं तदवस्थमेवास्ते, इदं हि कतिचिदिनभावि मुहूर्तसुन्दरं मकरध्वजराज्यं, तत्तु महामोहराज्यमाकालप्रतिष्ठमनन्तकल्पविमर्दसुन्दरं अतः का तत्र विचलनाशङ्का ? अन्यच्च तत्समस्तभुवनव्यापकं महामोहराज्यमिदं पुनरत्रैव मानवावासपुरे मकरध्वजराज्यं, केवलं चिरन्तनस्थितिपालनव्यसनितया निजपदातेरपि स्वयमेव राज्येऽभिषिक्तस्य पुरतोऽस्य मकरध्वजस्य महामोहनरेन्द्रोऽयमेवं भृत्यभावमाचरति, तस्मादविचलमेव भद्र! तन्महामोहास्थानं, तत्र वर्तमाना एवामी नूनमत्र दृश्यन्ते । प्रकर्षणोक्तंनष्टो मे संशयोऽधुना ।