________________
૧૭૦
ઉપમિતિભવપ્રપંચા કથા ભાગ-૫ | ચતુર્થ પ્રસ્તાવ
Cोs:
सर्वत्र विचरन्तीनामासामुद्दामलीलया ।
गजानामिव मत्तानां, नास्ति मल्लो जगत्त्रये ।।२७०।। श्लोार्थ :
સર્વત્ર ઉદામલીલાથી વિચરતી આમનો મત એવા ગજેની જેમ જગતમયમાં મલ નથી. ર૭૦I
Rels :
स्वप्रयोजनवीर्येण, विलसन्तीनिरङ्कुशं ।
को नाम भुवने साक्षादेताः खलयितुं क्षमः? ।।२७१।। श्लोकार्थ :
સ્વપ્રયોજનવીર્યથી નિરંકુશ ભુવનમાં વિલાસ પામતી આમને=આ સાત નારીઓને, સાક્ષાત્ અલન કરવામાં કોણ સમર્થ છે? અર્થાત્ કોઈ નથી. ll૨૭૧||
निश्चय-व्यवहारविभागः प्रकर्षेणोक्तं-माम! तत्किं पुरुषेण न यतितव्यमेवामूषां निराकरणे? विमर्शेनोक्तं-वत्स! निश्चयतो निराकरणे न यतितव्यमेव, यतो न शक्यत एवावश्यंभाविनीनामासां निराकरणं कर्तुं, विमृश्यकारी च पुरुषः कथमशक्येऽर्थे प्रवर्तेत ? न हि कर्मपरिणामकालपरिणतिस्वभावलोकस्थितिभवितव्यतादिसंपूर्णकारणसामग्रीबलप्रवर्तितानामवश्यमाविर्भवन्तीनाममषामन्येषां वा कार्यविशेषाणां निराकरणे यतमानः पुरुषः प्रयासादृते कञ्चिदर्थं पुष्णाति । प्रकर्षः प्राह-माम! पूर्वं भवता प्रत्येकमासां जरारुजादीनामपराण्येवान्तरङ्गबहिरङ्गाणि प्रवर्तकानि निर्दिष्टानि तत्कथमिदानीं कर्मपरिणामादीनि प्रवर्तकत्वेनोच्यन्ते? विमर्शेनोक्तं-तानि विशेषकारणानीतिकृत्वा प्राधान्येनोक्तानि, परमार्थतस्तु यथानिर्दिष्टकर्मपरिणामादिकारणकलापव्यापारमन्तरेण न नयननिमेषोन्मेषमात्रमपि कार्यजातं किञ्चिज्जगति जायते । प्रकर्षः प्राह-माम! यद्येवं ततः पुरुषेण किमात्मनो निजवर्गीणस्य वाऽमूरभ्यर्णवर्तिनीरापतन्तीरुपलक्ष्य न कर्तव्य एव कश्चिदासां निवारणोपायः? किं नान्वेषणीया एव वैद्योषधमन्त्रतन्त्ररसायनचतुविधदण्डनीत्यादयः समुपस्थितजरारुजामृत्यादिनिर्घातनोपायाः? किं सर्वथा पादप्रसारिकैवात्र श्रेयस्करी? किमकिञ्चित्कर एव पुरुषो हेयोपादेयहानोपादाने? ननु प्रत्यक्षविरुद्धमिदं, यतः प्रवर्तन्ते एव पुरुषा हिताहितयोरवाप्तिनिराकरणकामतया, प्रवृत्ताश्चोपायेन प्राप्नुवन्ति हितमर्थं, निराकुर्वन्ति चोपस्थितमप्युपायत एवाहितमिति । विमर्शेनोक्तं-वत्स! विश्रब्धो भव मोत्तालतां यासीः, परामृश वचनैदम्पर्यं, निश्चयतो हि मयोक्तं यथा मा प्रवर्तिष्ट पुरुषः, व्यवहारतस्तु तत्प्रवृत्ति को वारयति? पुरुषेण हि