SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ go ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ | ચતુર્થ પ્રસ્તાવ સંબંધી તે વક્ષ:સ્થલનું અવલેપન સુકાતું નથી તેટલી વેળા સુધી શૈલસભ્યપણાથી હું રહ્યો. વળી, મનાફ તે અવલેપન શોષ પામે છતે મને પશ્ચાત્તાપ થયો. તરસુંદરીના સ્નેહનો મોહ મને પીડા કરવા લાગ્યો. હું અરતિથી સમાધ્યાસિત થયો. રણરણકથી ગ્રહણ કરાયો. શૂન્યપણા વડે અંગીકૃત કરાયો. વિક્વલપણા વડે સ્વીકાર કરાયો, કરોડો વિકારોથી સ્વીકારાયો, મદનજવરથી અવષ્ટબ્ધ થયો. विमलमालतीदर्शितनरसुन्दरीपरिस्थितिः ततो निषण्णः शयनीये, तत्रापि प्रवर्धमानया जृम्भिकयाऽनवरतमुद्वर्तमानेनाऽङ्गेन मत्स्यक इव खादिराङ्गारराशिमध्ये दन्दह्यमानः स्तोकवेलायां यावत्तिष्ठामि तावदागता सविषादमम्बा विमलमालती । ततस्तां वीक्ष्य कृतं मयाऽऽकारसंवरणं, निषण्णा भद्रासने स्वयमेवाम्बा, स्थितोऽहं पर्यङ्क एवोपविष्टः । अभिहितमम्बया-वत्स! न सुन्दरमनुष्ठितं भवता यदसौ तपस्विनी नरसुन्दरी परुषवचनैस्तथा तिरस्कृता, तथाहि-यदितो गतायास्तस्याः संपनं तत्समाकर्णयतु वत्सः । मयाऽभिहितं-उच्यतां यत्ते रोचते । अम्बयाऽभिहितं-अस्ति तावदितो निर्गता नयनसलिलधाराधौतगण्डलेखा दीनमनस्का दृष्टा सा मया नरसुन्दरी पतिता रुदन्ती मम पादयोः । मयाऽभिहिता-हले! नरसुन्दरि! किमेतत् ? तयाऽभिहित-अम्ब! दाहज्वरो मां बाधते, ततो नीता मया सा वातप्रदेशे, सज्जीकारितं शयनीयं, तत्र च स्थापिता सा, निषण्णाऽहं पार्श्वे, ततः प्रहतेव महामुद्गरेण, प्लुष्यमाणेव तीव्राऽग्निना, खाद्यमानेव वनपञ्चाननेन, ग्रस्यमानेव महामकरेण, अवष्टभ्यमानेव महापर्वतेन, उत्कर्त्यमानेव कृतान्तकर्तिकया, पाट्यमानेव क्रकचपाटेन, पच्यमानेव नरके प्रतिक्षणमुद्वर्त्तपरावर्तं कर्तुमारब्धा । मयाऽभिहितं हले! किंनिमित्तकः पुनस्तवाऽयमेवंविधो दाहज्वरः? ततो दीर्घदीर्घं निःश्वस्य न किञ्चिज्जल्पितमनया । मया चिन्तितं-मानसीयमस्याः पीडा, कथमन्यथा ममाऽपि न कथयेत् ? कृतो मया निर्बन्धः, कथितं कृच्छ्रेण नरसुन्दर्या यथावृत्तं, ततो नियुज्य तस्याः शीतक्रियाकरणे कन्दलिकां मयाऽभिहिता सा नरसुन्दरी, यदुत-वत्से! यद्येवं ततो धीरा भव, मुञ्च विषादं, अवलम्बस्व साहसं, गच्छाम्यहं स्वयमेव वत्सस्य रिपुदारणस्य समीपे, करोमि तं तवाऽनुकूलं, केवलं किं न विज्ञातं पूर्वमेव त्वयेदं यथा-नितरां मानधनेश्वरो मदीयस्तनयः, न विषयः प्रतिकूलभाषणस्य, तदिदानीमपि विज्ञातमाहात्म्ययाऽस्य त्वया न कदाचिदपि प्रतिकूलमाचरणीयं, यावज्जीवं परमात्मेवाऽयमाराधनीयः । ततश्चेदं मदीयवचनमाकर्ण्य सा बाला नरसुन्दरी विकसितेव कमलिनी, कुसुमितेव कुन्दलता, परिपाकबन्धुरेव मञ्जरी, मदसुन्दरेव करिणिका, जलसेकाप्यायितेव वल्लरी, पीतामृतरसेव नागप्रणयिनी, गतघनबन्धनेव चन्द्रलेखिका, सहचरमीलितेव चक्रवाकिका, क्षिप्तेव सुखामृतसागरे सर्वथा किमप्यनाख्येयं रसान्तरमनुभवन्ती शयनादुत्थाय निपतिता गाढं मम चरणयोः ।
SR No.022716
Book TitleUpmiti Bhav Prapancha Katha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages382
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy