________________
૧૮૮
ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ | ચતુર્થ પ્રસ્તાવ अतः शीघ्रमस्य बाधिर्यस्य करोतु किञ्चिदौषधं भट्टारकः, न खलूपेक्षितुं युक्तोऽयं महाव्याधिः, ततः प्रविष्टो भौताचार्यस्य मनसि स एवाऽऽग्रहविशेषः, ततोऽभिहितोऽनेन शान्तिशिवो नाम निजशिष्यो यदुत गच्छ त्वं वैद्यभवने मदीयबधिरत्वस्य विज्ञाय भेषजं गृहीत्वा च तत्तूर्णमागच्छ, मा भूत्कालहरणेन व्याधिवृद्धिरिति । शान्तिशिवेनाभिहितं- यदाज्ञापयति भट्टारकः । ततः प्राप्तोऽसो वैद्यभवने, दृष्टो वैद्यः । इतश्च बृहतीं वेलां रमणं विधाय द्वारात्समागतो वैद्यपुत्रः, ततः क्रोधान्धबुद्धिना वैद्येन गृहीतातिपरुषा वालमयी रज्जुः, बद्धश्चारटनसौ निजदारकः स्तम्भके, गृहीतो लकुटः, ताडयितुमारब्धः, ताड्यमाने च निर्दयं तत्र दारके शान्तिशिवः प्राह-वैद्य! किमित्येनमेवं ताडयसि? वैद्येनोक्तं न शृणोति कथञ्चिदप्येष पापः । अत्रान्तरे हाहारवं कुर्वाणा वेगेनागत्य लग्ना वैद्यस्य हस्ते वारणार्थं भार्या । वैद्यः प्राह-मारणीयो मयाऽयं दुरात्मा यो ममैवं कुर्वतोऽपि न शृणोति । अपसराऽपसर त्वमितरथा तवापीयमेव गतिः । तथापि लगन्ती ताडिता साऽपि वैद्येन । शान्तिशिवेन चिन्तितं-अये! विज्ञातं भट्टारकस्यौषधं किमधुना पृष्टेन? ततो निर्गत्य गतोऽसौ माहेश्वरगृहे याचिता तेन रज्जुः समर्पिता माहेश्वरैः शणमयी । शान्तिशिवः प्राह-अलमनया, मम वालमय्याऽतिपरुषया प्रयोजनं, दत्ता तादृश्येव । माहेश्वरैरभिहितं च-भट्टारक! किं पुनरनया कार्यम्? शान्तिशिवेनोक्तं-सुगृहीतनामधेयानां सदाशिवभट्टारकाणामौषधं करिष्यते । ततो गृहीत्वा रज्जु गतो मठे शान्तिशिवः तत्र च दृष्ट्वा गुरुं कृतमनेन विषमभृकुटितरङ्गभङ्गकरालं वक्त्रकुहरं बद्धश्चाराटीर्मुञ्चन्नसौ मठमध्यस्तम्भके निजाचार्यः । ततो गृहीतबृहल्लकुटोऽसौ प्रवृत्तस्तस्य ताडने । इतश्च माहेश्वरैश्चिन्तितं-गच्छामो भट्टारकाणां क्रियायां क्रियमाणायां प्रत्यासन्नाः स्वयं भवामः । ततः समागतास्ते दृष्टो निर्दयं ताडयन्नाचार्य शान्तिशिवः । तैरभिहितं-किमित्येनमेवं ताडयसि ? शान्तिशिवः प्राह-न शृणोति कथञ्चिदप्येष पापः । ततो विहितः सदाशिवेन म्रियमाणेन महाक्रन्दभैरवः शब्दः । ततो लग्ना वारणार्थं हाहारवं कुर्वन्तः शान्तिशिवस्य माहेश्वराः । शान्तिशिवः प्राहमारणीयो मयाऽयं दुरात्मा, यो ममैवं कुर्वतोऽपि न शृणोति, अपसरताऽपसरत यूयमितरथा युष्माकमपीयमेव वार्तेति । तथापि वारयतो माहेश्वरानपि प्रवृत्तस्ताडयितुमसौ लकुटेन, ततो बहुत्वात्तेषां रे लात लातेति ब्रुवाणैरुद्दालितस्तैस्तस्यहस्ताल्लकुटः चिन्तितं च-नूनं ग्रहगृहीतोऽयं, ततो बद्धस्तैस्ताडयित्वा पश्चाद् बाहुबन्धेन शान्तिशिवः । विमोचितः सदाशिवः, लब्धा तेन चेतना, जीवितो दैवयोगेन, माहेश्वरैरभिहितं-शान्तिशिव! किमिदं भगवतस्त्वया कर्तुमारब्धमासीत् ?, शान्तिशिवः प्राह-ननु बधिरताया वैद्योपदेशादौषधं, किञ्च मुञ्चत मां मा भट्टारकव्याधिमुपेक्षध्वम् । माहेश्वरैश्चिन्तितं-महाग्रहोऽयं, ततोऽभिहितमेतैः-मुञ्चामस्त्वां यद्येवं न करोषि । शान्तिशिवः प्राह