________________
૧૬૧
ઉપમિતિભવપ્રપંચા કથા ભાગ-૪ | ચતુર્થ પ્રસ્તાવ
आवासितं महानद्याः, पुलिनेऽतिमनोरमे । महामण्डपमध्यस्थं, वेदिकायां प्रतिष्ठितम् ।।११।। महासिंहासनारूढं, भटकोटिविवेष्टितम् ।
गत्वा स्म नातिदूरं तौ, दत्तास्थानं प्रपश्यतः ।।१२।। स्लोडार्थ :
હવે ત્યાં=તે મહાઇટવીમાં, રાગકેસરીથી સંયુક્ત અને દ્વેષગજેન્દ્રથી યુક્ત અંતરંગ બલથી અન્વિત અતિમનોરમ મહાનદીના પુલ ઉપર રહેલા મહામંડપની મધ્યમાં, વેદિકા ઉપર પ્રતિષ્ઠિત, મહાસિંહાસન ઉપર આરૂઢ, ભટકોટિથી વેષ્ટિત, આપેલા આસ્થાનવાળા મહામોહને અતિદૂર નહીં જઈને તે બંનેએ=મામા અને ભાણેજે, જોયો. ll૧૦થી ૧૨
ततो विम”नाभिहितं-भद्र! प्राप्तौ तावदावामभीष्टप्रदेशे, लङ्घिता महाटवी, दृष्टं महामोहसाधनं, दर्शनपथमवतीर्णोऽयं दत्तास्थानः सह रागकेसरिणा सपरिकरो महामोहराजः, तन्न युक्तोऽधुनाऽऽवयोरस्मिन्नास्थाने प्रवेशः, मा भूदेतेषामास्थानस्थायिनां लोकानामपूर्वयोरावयोर्दर्शनेन काचिदाशङ्का । अन्यच्च-अत्रैव प्रदेशे व्यवस्थिताभ्यां दृश्यत एवेदं सकलकालमास्थानं, अतः कुतूहलेनापि न युक्तोऽत्र प्रवेशः । प्रकर्षेणोक्तं-एवं भवतु, केवलं मामेयं महाटवी, इयं च महानदी, इदं च पुलिनं, अयं च महामण्डपः, एषा च वेदिका, एतच्च महासिंहासनं, अयं च महामोहनरेन्द्रः, एते च सपरिवाराः समस्ता अपि शेषनरेन्द्राः सर्वमिदमदृष्टपूर्वं अहो महदत्र कुतूहलं, तेनामीषामेकैकं नामतो गुणतश्च मामेन वर्ण्यमानं विस्तरतः श्रोतुमिच्छामि । अभिहितं च पूर्वं मामेन यथा जानाम्यहं दृष्टस्य वस्तुनो यथावस्थितं तत्त्वं, अतः समस्तं निवेदयितुमर्हति मामः । विमर्शः प्राह-सत्यं, अभिहितमिदं मया, केवलं भूरिप्रकारं परिप्रश्नितमिदं भद्रेण, ततः सम्यगवधार्य निवेदयामि । प्रकर्षः प्राह-विश्रब्धमवधारयतु मामः । ततो विमर्शन समन्तादवलोकिता महाटवी, निरीक्षिता महानदी, विलोकितं पुलिनं, निर्वर्णितो महामण्डपः, निरूपिता वेदिका, निभालितं महासिंहासनं, विचिन्तितो महामोहराजो, विचारिताः प्रत्येकं महताऽभिनिवेशेन सपरिकराः सर्वे नरेन्द्राः, स्वहृदयेन प्रविष्टो ध्यानं, तत्र च व्युपरताऽशेषेन्द्रियग्रामवृत्तिनिष्पन्दस्तिमितलोचनयुगलः स्थितः कञ्चित्कालं, ततःप्रकम्पयता शिरः प्रहसितमनेन । प्रकर्षः प्राह-माम! किमेतत् ? विमर्शेनोक्तं-अवगतं समस्तमिदमधुना मया, ततः समुद्भूतो हर्षः, प्रच्छनीयमन्यदपि साम्प्रतं यत्ते रोचते । प्रकर्षेणोक्तं-एवं करिष्यामि, तावदिदमेव प्रस्तुतं निवेदयतु मामः ।