________________
૧૩૮
ઉપમિતિભવપ્રપંચા કથા ભાગ-૪] ચતુર્થ પ્રસ્તાવ ત્યારપછી પ્રકર્ષ વડે કહેવાયું. હે મામા ! આ નગર વિરલજનપણાને કારણે શૂન્ય જેવું કેમ દેખાય छ ? ज्या ॥२९ने माश्रयीने मारासयितर, मावा प्रा२j थयु छ ? विमर्श 3 छ - टोs:
यथेदं दृश्यते सर्वं, समृद्धं निजसम्पदा । केवलं लोकसन्दोहरहितं सुस्थितालयम् ।।१।। तथेदं भाव्यते नूनं, नगरं निरुपद्रवम् ।
प्रयोजनेन केनापि, क्वचिनिष्क्रान्तराजकम् ।।२।। युग्मम् ।। Gोार्थ :
જે પ્રકારે આરાજસચિત્તનગર, નિજસંપદાથી સર્વ સમૃદ્ધ દેખાય છે કેવલ લોકના સમૂહથી રહિત સુસ્થિત આલયવાળું છે. તથા તે પ્રમાણે ખરેખર આ નગર નિરુપદ્રવ વિભાવન કરાય છે. કોઈક પણ પ્રયોજનથી ક્વચિત્રકોઈક સ્થાનમાં, નિષ્ઠાંત રાજાવાળું છે. ll૧-ચા
प्रकर्षः प्राह-एवमेतत्सम्यगवधारितं मामेन । विमर्शः प्राह-भद्र! कियदिदं, जानाम्यहं सर्वस्यैव वस्तुनो दृष्टस्य यत्तत्त्वं, प्रष्टव्यमन्यदपि यत्र ते क्वचित्सन्देहः संभवति । प्रकर्षणाभिहितं-माम! यद्येवं ततः किमितीदं नगरं रहितमपि नायकेन विवर्जितमपि भूरिलोकैर्निजश्रियं न परित्यजति ? विमर्शेनोक्तं - अस्त्यस्य मध्ये कश्चिन्महाप्रभावः पुरुषः तज्जनितमस्य सश्रीकत्वम् । प्रकर्षः प्राहयद्येवं ततः प्रविश्य निरूपयावस्तं पुरुषम् । विमर्शेनोक्तं-एवं भवतु । ततः प्रविष्टौ तौ नगरे । प्राप्तौ राजकुले दृष्टस्तत्राहंकारादिकतिचित्पुरुषपरिकरो मिथ्याभिमानो नाम महत्तमः । ततो विमर्शः प्राह-भद्र! सोऽयं पुरुषो यत्प्रभावजन्यमस्य राजसचित्तनगरस्य सश्रीकत्वम्, प्रकर्षणोक्तं-यद्येवं ततस्तावदेनमुपसृत्य जल्पयावः, पृच्छावश्च कोऽत्र वृत्तान्तः? इति । विमर्शेनोक्तं- एवं भवतु । ततः संभाषितस्ताभ्यां मिथ्याभिमानः, पृष्टश्च-भद्र! । केन पुनर्व्यतिकरण विरलजनमिदं दृश्यते नगरम् ? मिथ्याभिमानः प्राह-ननु सुप्रसिद्धवेयं वार्ता कथं न विदिता भद्राभ्याम् ? विमर्शेनोक्तं न कर्तव्योऽत्र भद्रेण कोपः, आवां हि पथिको न जानीवो महच्चात्रार्थे कुतूहलं अतो निवेदयितुमर्हति भद्रः । मिथ्याभिमानेनोक्तं-अस्ति तावत्समस्तभुवनप्रतीतोऽस्य नगरस्य स्वामी सुगृहीतनामधेयो देवो रागकेसरी, तज्जनकश्च महामोहः, तथा तयोर्मन्त्रिमहत्तमाश्च भूयांसो विषयाभिलाषादयः, तेषामितो नगरात् सर्वबलसमुदयेन दण्डयात्रया निर्गतानामनन्तः कालो वर्तते, तेनेदं विरलजनमुपलभ्यते नगरम् । विमर्शः प्राह-भद्र! केन सह पुनस्तेषां विग्रहः? मिथ्याभिमानः प्राह-दुरात्मना सन्तोषहतकेन विमर्शेनोक्तं-किं पुनस्तेन सार्धं विग्रहनिमित्तम्? ।