SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ પ્રકર્ષ છે=ચપલપુરુષો હોય છે તેઓના પ્રકર્ષવાળી પાંચ ઇન્દ્રિયો છે. પરવંચનમાં ચતુરોની નિકષભૂમિ છે=બીજાને ઠગવામાં ચતુર એવી ઉત્પત્તિભૂમિ છે. સાહસિકોની પરાકાષ્ઠા છે=ઇન્દ્રિયોને વશ જીવો બધા પ્રકારના સાહસ કરવામાં તત્પર થતા હોય છે. દુર્ગંતોનું દૃષ્ટાંત છે. જેમ નાના છોકરાઓ તોફાન કરતા હોય તેને દમન કરવા મુશ્કેલ છે તેમ ઇન્દ્રિયોને પણ દમન કરવી મુશ્કેલ છે. આવા વિષયાભિલાષના પોતાના જ સ્પર્શન આદિ પાંચ ગ્રહણ કરાયેલા મનુષ્યોને જગત વશીકરણ માટે મોકલાવાયા. તેથી=વિપાકે પ્રસ્તાવનું કારણ બતાવ્યું તેમાં સ્પર્શન આદિનું નામ પ્રાપ્ત થયું તેથી, મારા વડે=પ્રભાવ वडे, विचारायुं - खरे ! स्पर्शननुं भूल उत्थान प्राप्त थयुं. सन्तोषजयाय युद्धसंरम्भः ७० विपाकेनाभिहितं- ततो वितते जगति विचरद्भिस्तैर्वशीकृतप्रायं भुवनं वर्त्तते, ग्राहितप्रायं रागकेसरिणः किङ्करतां, केवलं महाशस्यसमुदायानामितिविशेष इव तेषामुपद्रवकारी समुत्थितः श्रूयते किल कश्चित् सन्तोषो नाम चरटो, निर्वाहिताश्च तान्यभिभूय किल कियन्तोऽपि लोकास्तेन, प्रवेशिताश्च देवभुक्तेरतिक्रान्तायां निर्वृत्तौ नगर्यामिति च श्रूयते । ततो मया चिन्तितं व्यभिचरति मनागयमर्थो यतोऽस्माकं समक्षमेव मनीषिबालयोः स्पर्शनेन निर्वृतौ नगर्यां भवजन्तोर्गमनं सदागमबलेनाख्यातं, अयं तु स्पर्शनादीन्यभिभूय सन्तोषेण निर्वाहिता लोकाः स्थापिताश्च निर्वृत्तौ नगर्यामिति कथयति, तत्कथमेतद् ? अथवा किमनयाऽकाण्डपर्यालोचनया ? अवहितस्तावदाकर्णयाम्यस्य वचनं, पश्चाद्विचारयिष्यामि । विपाकेनाभिहितं ततोऽयमाप्तलोकश्रुतेराकर्णितोऽद्य देवेन रागकेसरिणा स्पर्शनाद्यभिभवव्यतिकरः । ततोऽतिदुःसहमश्रुतपूर्वं च स्वपदातिपरिभववचनमाकर्ण्य कोपानलजनितरक्तलोचनयुगलेन, विषमस्फुरिताधरेण, करालभृकुटिभङ्गकुण्डलीकृतललाटपट्टेनाबद्धनिरन्तरस्वेदबिन्दुना, निर्दयकराभिहतधरणीपृष्ठेन, प्रलयज्वलनभास्वरं रूपमाबिभ्रताऽमर्षवशपरिस्खलद्वचनेन देवेन रागकेसरिणाऽऽज्ञापितः परिजनः अरे त्वरितास्ताडयत प्रयाणकपटहं, सज्जीकुरुत चतुरङ्गं बलम् । परिजनेनाभिहितंयदाज्ञापयति देवः, ततस्तथा देवमायास्यमानमवलोक्य विषयाभिलाषेणाभिहितंदेव! अलमावेगेन, कियानसौ वराकः सन्तोषः स्थानमादरस्य ? न खलु केसरी लीलादलितत्रिगण्डगलितवरकरिनिकरो हरिणं व्यापाद्यतयोद्दिश्यायस्तचित्तो भवति । देवेनाभिहितं सखे ! सत्यमिदं, केवलं युष्मन्मानुषकदर्थनां कुर्वता दृढमुद्वेजितास्तेन पापेन सन्तोषेण, न खलु तमनुन्मूल्य म मनसः सुखासिका संपद्यते । मन्त्रिणाऽभिहितं देव ! स्तोकमेतत् मुच्यतां संरम्भः, ततस्तद्वचनेन मनाक् स्वस्थीभूतो देवः, कृतमशेषं गमनोचितं, स्थापितः पुरतः स्नेहसलिलपूर्णः प्रेमाबन्धाख्यः कनककलशः, उद्घोषितः केलिजल्पनामको जयजयशब्दः, गीतानि चाटुवचनादीनि मङ्गलानि, प्रहतं रतिकलहनामकमुदामातोद्यवृन्दं, निर्वर्त्तितान्यङ्गरागभूषणादीनि समस्तकौतुकानि, प्रवृत्तो
SR No.022715
Book TitleUpmiti Bhav Prapancha Katha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages520
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy