________________
३८५
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ मथी मय छे. मा। 43 वायुं - तो तुं=पिं०४ला, MEन ४२, d=पिं०४ला, छ - तारा વડે મલયમંજરી તામડી મારી સ્વામિની જણાયેલી જ છે, તેની કતકમંજરી નામની પુત્રી છે. અત્રાસરમાં તેતલી વડે કમકમંજરી નામના ગ્રહણથી જ મારું નંદિવર્ધનનું, દક્ષિણ લોચન સ્પંદિત થયું. અધર સ્કૂરણ કરાયું. હદયથી ઉચ્છવાસ લેવાયો, ઉદ્વેગ ગયેલાની જેમ અંગથી રોમાંચિત થવાયું.
कनकमञ्जरीपरिस्थितिवर्णनम् ततो मया चिन्तितं-नूनं सैषा मम हृदयदयिता कनकमञ्जरीत्युच्यते । सहर्षेण चाभिहितंततस्ततः । ततो लक्षितमदीयभावेन अहो प्रियनामोच्चारणमन्त्रसामर्थ्यमिति विचिन्त्य तेतलिनाऽनुसन्धानेन कपिञ्जलावचनमिदमभिहितं-सा च मदीयस्तन्यपानेन संवर्धिता, तेन मम सर्वस्वमिव, शरीरमिव, हृदयमिव, जीवितमिव सा कनकमञ्जरी स्वरूपादव्यतिरेकिणी वर्तते । अधुना पीड्यते सा वराकी मकरध्वजेन ततो यत्तस्या मीनकेतनाद् भयं तत्परमार्थतो ममैव भयमिति । तदिदमाकर्ण्य धा(वा)रयतस्ते-तलेराकृष्य करवालमरेरे मन्मथहतक! मुञ्च मुञ्च मे प्रियां कनकमञ्जरी, पुरुषो वा भव दुरात्मन्! नास्त्यधुना ते जीवितमिति ब्रुवाणोऽहमुत्थितः शयनीयतलाद्वेगेन । तेतलिनाऽभिहितं-देव! अलमनेनाऽऽवेगेन, न खलु सदये देवे कनकमञ्जर्या मदनहतकादन्यस्माद्वा सकाशाद् भयगन्धोऽपि, कथानकं चेदमतस्तच्छेषमप्याकर्णयतु देवः । ततस्तद्वचनेनाहं पुनः प्रत्यागतचेतनो मनाग विलक्षीभूतो निषण्णः शय्यातले । तेतलिः प्राह-ततो मयाऽभिहितं-भद्रे कपिञ्जले! किं पुनर्निमित्तमासाद्य तस्यां कनकमञ्जर्यां प्रभवति मदनहतकः । कपिञ्जलयाऽभिहितंआकर्णय, अस्ति तावदतीते दिने संपन्नं वधूहरणविड्वरं, संजातो देवस्य कनकचूडस्य परैः सह महासंग्रामः, ततो लब्धजयपताकेषु नगरं प्रविशत्सु कनकचूडकनकशेखरनन्दिवर्धनेषु कुतूहलवशेनाहं गेहानिर्गत्य स्थिता हट्टमार्गे, प्रविष्टेषु गता स्वामिनी भवनं, आरूढा चोपरितनभूमिकायां, तत्र च वातायने वर्तमाना राजमार्गाभिमुखनिःसारितवदनकमला निष्पन्दमन्दस्तिमितशून्यदृष्टिका चित्रविन्यस्तेव, शैलघटितेव, निष्पन्नयोगेव, परमयोगिनी व्युपरताशेषाङ्गप्रत्यङ्गचलनचेष्टा दृष्टा मया कनकमञ्जरी । ततो हा किमेतदितिविचिन्त्य सम्भ्रमं पुत्रि! कनकमञ्जरीति पुनः पुनस्तामहमाहूतवती न च दत्तं मे मन्दभाग्यायास्तया प्रत्युत्तरम् ।
કનકમંજરીની પરિસ્થિતિનું વર્ણન તેથી તેતલીએ નંદિવર્ધન પાસે કપિંજાના કામના ભયને વ્યક્ત કરતા કનકમંજરીનું નામ કહ્યું અને તેતલીના મુખે કનકમંજરીનું નામ સાંભળવાથી, મારા વડે=નંદિવર્ધત વડે, વિચારાયું, ખરેખર મારા હૃદયની પ્રેમિકા તે આ કનકમંજરી એ પ્રમાણે કહેવાય છે. સહર્ષથી કહેવાયું નંદિવર્ધન વડે