SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ ૩૬૯ कलत्रयोरपहारः समरसेनद्रुमविभाकरैः सह युद्धम् ततोऽनेकाश्चर्यदर्शनेनानन्दपूरितहृदये संप्राप्ते ते चूतचूचुकं नामोद्यानं, प्रवृत्ते क्रीडितुं, वयं तु कनकचूडराजास्थाने तदा तिष्ठामः यावदकाण्ड एव प्रवृत्तः कोलाहलः, पूत्कृतं दासचेटीभिः, किमेतदितिसंभ्रान्तं उत्थितमास्थानं, हृते विमलाननारत्नवत्यौ केनचिदिति प्रादुर्भूतः प्रवादः, ततः सन्नद्धमस्मबलं, लग्नं तदनुमार्गेण, ततो मार्गखिन्नतया परसैन्यस्य, सोत्साहतयाऽस्मदनीकस्य, स्तोकभूभाग एव समवष्टब्धा परचमूरस्मत्पताकिन्या, श्रुतमस्माभिर्विभाकरनाम बन्दिभिरु ष्यमाणम् । ततः सर्वैरेव चिन्तितमस्माभिः-अये! स एष कनकपुरनिवासी प्रभाकरबन्धुसुन्दोस्तनयो विभाकरो यस्मै प्रभावत्या दत्ता विमलानना पूर्वमासीदिति निवेदितं दूतेन ततश्चैषोऽस्मान् परिभूय हरत्येते वध्वौ दुष्टात्मेति भावयतो मे विहिता वैश्वानरेण संज्ञा, ततो भक्षितं मया क्रूरचित्ताभिधानं वटकं, संजातो भासुरः परिणामः । ततो मयाऽभिहितं 'अरेरे पुरुषाधम विभाकर! परदारहरणतस्कर! क्व यासि ? पुरुषो भव पुरुषो भव' इति, ततस्तदाकर्ण्य गङ्गाप्रवाह इव त्रिभिः स्रोतोमुखैर्वलितमभिमुखं परबलं, आविर्भूतास्तदधिष्ठायकास्त्रय एव नायकाः । ततो मया कनकचूडराजेन कनकशेखरेण च त्रिभिरपि यो कामैर्यथासंमुखं वृत्तास्ते इतश्च योऽसौ कन्यागमनसूचनार्थं कनकचूडराजसमीपे समागतः पूर्वमासीनन्दराजदूतः स तत्रावसरे मत्सकाशे वर्तते । ततोऽभिहितोऽसौ मया-अरे विकट! जानीषे त्वं कतमाः खल्वेते त्रयो नायकाः? विकटः प्राह-देव! सुष्ठु जानामि, य एष वामपार्श्वेऽनीकस्य सम्मुखो भवतः एष कलिङ्गाधिपतिः समरसेनो नाम राजा, एतद्बलेनैव हि प्रारब्धमिदमनेन विभाकरेण, यतो महाबलतया विभाकरपितुः प्रभाकरस्यायं स्वामिभूतो वर्तते । यः पुनरेष मध्यमसैन्ये वर्ततेऽभिमुखः कनकचूडनरपतेः अयं विभाकरस्यैव मातुलो वङ्गाधिपतिर्दुमो नाम राजा । यस्त्वेष दक्षिणभागवर्तिनि बले नायकोऽभिमुखः कनकशेखरस्य, सोऽयं विभाकर एव । यावदेवं कथयति विकटः तावत्समालग्नमायोधनम् । પત્નીઓનું અપહરણ તથા સમરસેન, દ્રમ અને વિભાકરની સાથે યુદ્ધ ત્યારપછી અનેક આશ્ચર્યના દર્શનથી આનંદપૂરિત હદય પ્રાપ્ત થયે છતે તે બંને ચૂત ચૂચક નામના ઉધાનમાં કીડા કરવા માટે પ્રવૃત્ત થઈ. વળી, અમે ત્યારે કનકચૂડ રાજાના રાજસભામાં બેઠા છીએ તેટલામાં અચાનક જ કોલાહલ થયો. દાસીઓ વડે પોકાર કરાયો. આ શું છે? એ પ્રકારે સંભ્રાન્ત સભા ઊઠી. વિમલાનના અને રસ્તવતી કોઈકના વડે હરણ કરાઈ છે, એ પ્રકારે પ્રવાદ પ્રાદુર્ભત થયો. તેથી અમારું સૈન્ય લડવા માટે તત્પર થયું, તેના અનુમાર્ગથી ચાલ્યું. ત્યારપછી પરસૈન્યનું માર્ગખિન્નપણું હોવાને કારણે, અમારા સૈન્યનું ઉત્સાહપણું હોવાને કારણે થોડાક ભૂમિભાગમાં જ અમારી સેવાથી
SR No.022715
Book TitleUpmiti Bhav Prapancha Katha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages520
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy