________________
399
ઉપમિતિભવપ્રપંચો કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ પ્રભાવવાળી આ હિંસા છે. જે કારણથી મારા વડે=વૈશ્વાનર વડે, અધિષ્ઠિત પુરુષ અતિતેજસ્વીપણાને કારણે બીજાને ત્રાસ માત્ર ઉત્પન્ન કરે છે. વળી, અત્યંત અનુરક્ત એવી આ હિંસાથી આલિંગિતમૂર્તિવાળો પુરુષ મહાપ્રભાવપણાથી દર્શન માત્રથી જ જીવિતનો નાશ કરે છે. તે કારણથી કુમાર વડે આ=હિંસા, અભિમુખ કરવી જોઈએ. મારા વડે-નંદિવર્ધન વડે, કહેવાયું – આ પ્રમાણે કરું છું-વૈશ્વાનરે કહ્યું એ પ્રમાણે કરું છું, વૈશ્વાનર વડે કહેવાયું – મહાપ્રસાદ. માર્ગમાં જતો એવો હું સસલા, સૂકર, શરમ, શબર, સારંગ આદિ અટવીના જીવોને શતસહસ્રોથી મારતો હતો. તેથી હિંસા ખુશ થઈ. મારે અનુકૂળ સંપન્ન થઈ. તેથી મારા દર્શનથી જીવ કંપે છે, કેટલાક પ્રાણોને પણ મૂકે છે, તેથી વધ્વાનર કથિત હિંસાના પ્રભાવમાં મને વિશ્વાસ ઉત્પન્ન થયો. અમે કનકચૂડના નગરની નજીકમાં પ્રાપ્ત થયા.
प्रवरसेनेन सह युद्धम् तत्रास्ति विषमकूटो नाम पर्वतः, तस्मिंश्च कनकचूडमण्डलोपद्रवकारिणोऽम्बरीषनामानश्चरटाः प्रतिवसन्ति, ते च कदर्थिताः पूर्वं बहुशः कनकचूडेन, ततः कनकशेखरमागच्छन्तमवगम्य निरुद्धस्तैर्गिः, प्रत्यासनीभूतमस्मबलं, ततः कलकलं कुर्वन्तः समुत्थिताश्चरटाः समालग्नमायोधनं, ततश्च निपतितशरजालभिन्नेभकुम्भस्थलाभोगनिर्गच्छदच्छाच्छमुक्ताफलस्तोमसंपूरिताशेषभूपीठदेशं क्षणात् तथा विदलितभटमस्तकासंख्यराजीववृन्दानुकारेण रक्तौघनीरेण दण्डास्त्रसच्छत्रसंघातहंसेन तुल्यं तडागेन संजातमुच्चैर्महायुद्धमस्माकमिति । ततः समुदीर्णतया चरटवर्गस्य संजाताः परिभग्नप्रायाः कनकशेखरादयः । अत्रान्तरे प्रवरसेनाभिधानेन चरटनायकेन सार्धं समापतितं ममायोधनमिति । ततः संज्ञितोऽहं वैश्वानरेण, भक्षितं मया तत्क्रूरचित्ताभिधानं वटकं, ततः प्रवृद्धो मेऽन्तस्तापः, संजातो भृकुटितरङ्गभङ्गुरो ललाटपट्टः, समाचितं स्वेदबिन्दुनिकरेण शरीरं, स च प्रवरसेनोऽत्यन्तकुशलो धनुर्वेदे, नियूंढसाहसः करवालेऽतिनिपुणः सर्वास्त्रप्रयोगेषु, गर्वोद्धुरो विद्याबलेन, प्रबलवीर्यो देवताऽनुग्रहेण, तथापि सन्निहितपुण्योदयमाहात्म्यान्मे न लगन्ति स्म तदीयशिलीमुखाः, न प्रभवन्ति स्म तदीयशस्त्राणि, न वहन्ति स्म तस्य विद्याः, अकिञ्चित्करीभूता देवता, मम तु चेतसि परिस्फुरितंअहो प्रियमित्रवटकस्य प्रभावातिशयो यदस्य तेजसा ममायं रिपुर्दृष्टिमपि धारयितुं न पारयति । ततो मया वैश्वानरवटकप्रभावाधिष्ठितेन स प्रवरसेनश्चरटनायको विच्छिन्नकार्मुकः प्रतिहतशेषान्यशस्त्रः सन् गृहीतचमत्कुर्वद्भास्वरकरवालः स्यन्दनादवतीर्य स्थितो भूतले प्रस्थितो मदभिमुखम् । अत्रान्तरे पार्श्ववर्तिन्या विलोकितोऽहं हिंसया, जातो गाढतरं रौद्रपरिणामः, मुक्तो मया कर्णान्तमाकृष्य निशितोऽर्धचन्द्रः, छिनं तेन तस्याऽऽगच्छतो मस्तकं, समुल्लसितोऽस्मदबले कलकलः, निपातिता ममोपरि देवैः कुसुमवृष्टिः, वृष्टं सुगन्धोदकं, समाहता दुन्दुभयः, समुद्घोषितो जयजयशब्दः । ततो हतनायकत्वाद्विषण्णं चरटबलं, अवलम्बितप्रहरणं गतं मे शरणं, प्रतिपन्नं मया, निवृत्तमायोधनं, संजातः सन्धिः,