________________
३५४
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ કેટલોક કાળ રહી. દુષ્ટ અભિસંધિની સાથે પરિચય થયો. જે કારણથી દ્વેષગજેન્દ્ર સાથે પ્રતિબદ્ધ તેવો આ દુષ્ટ અભિસંધિ નામનો ચોરટો રાજા છે. તેથી=દુષ્ટ અભિસંધિ રાજા સાથે અવિવેકિતાને પરિચય થયો તેથી, અવિવેકિતાનો કિંકરભૂત વર્તે છે-દુષ્ટ અભિસંધિ રાજા કિંકરભૂત વર્તે છે. તેથી તે અવિવેકિતા મનુષ્યગતિમાં આવેલા મને જાણીને મારા ઉપર સ્નેહના વશથી તે રૌદ્રચિત્ત નગરથી આવીને સંનિહિત રહી=મારી પાસે રહી. આને અવિવેકિતાને, મારા જન્મદિવસે વૈશ્વાનર ઉત્પન્ન थयो=वैश्वानर नामनो पुत्र थयो. उभयी वृद्धिने पाभ्यो. तेएगी वडे अविवेडिता वडे, तेने = वैश्वानरने સર્વ પણ આત્મીય સ્વજન વર્ગ કહેવાયો.
नन्दिवर्धनेन सह हिंसाया विवाहः
ततस्तस्य वैश्वानरस्य तत्र मार्गे मया सह गच्छतः समुत्पन्नैवम्भूता बुद्धिः यदुतनयाम्येनं नन्दिवधनकुमारं रौद्रचित्तपुरे, दापयाम्यस्मै दुष्टाभिसन्धिना तां हिंसाकन्यकां, ततस्तया परिणीतया ममैष सर्वप्रयोजनेषु गाढतरं निर्व्यभिचारो भविष्यति ततो विचिन्त्य तेनैवमभिहितोऽहं तत्र गमनार्थम् । मयोक्तं-कनकशेखरादयोऽपि गच्छन्तु, वैश्वानरः प्राह- कुमार! नामीषां तत्र गमनप्रसरो, यतोऽन्तरङ्गं तद्रौद्रचित्तं नगरं, ततो विना परिजनेन मत्सहाय एव कुमारस्तत्र गन्तुमर्हति, ततस्तदाकर्ण्याऽहमलङ्घनीयतया तद्वचनस्य, गुरुतया तत्र स्नेहभावस्य, अज्ञानोपहततया चित्तस्याऽनाकलय् तस्य परमशत्रुतां, अपर्यालोच्यात्महिताहितं, अदृष्ट्वाऽप्यागामिनीमनर्थपरम्परां गतो वैश्वानरेण सह रौद्रचित्तपुरे, दृष्टो दुष्टाभिसन्धिः, दापिता वैश्वानरेण मह्यं तेन हिंसा, परिणीता क्रमेण कृतमुचितकरणीयं, ततः प्रहितो दुष्टाभिसन्धिना सहितो हिंसावैश्वानराभ्यां मिलितोऽहं कनकशेखरादिबले, गच्छतां मार्गे प्रारब्धः सहर्षेण वैश्वानरेण सह जल्पो यदुत - कुमार! कृतकृत्योऽहमिदानीम्, मयोक्तं कथम् ? स प्राह-यदेषा परिणीता कुमारेण हिंसा, केवलमेतावदधुनाऽहं प्रार्थये यद्येषा कुमारस्य सततमनुरक्ता भवति, मयाऽभिहितं - कः पुनरेवंभवनेऽस्या उपायो भविष्यति ? वैश्वानरः प्राह-सापराधं निरपराधं वा प्राणिनं मारयता कुमारेण न मनागपि घृणायितव्यं, अयमस्याः खल्वनुरक्तीभवनोपायः । मयाऽभिहितंकिमनयाऽत्यन्तमनुरक्तया भविष्यति ? वैश्वानरः प्राह- कुमार ! मत्तोऽपि महाप्रभावेयं, यतो मयाऽधिष्ठितः पुरुषोऽतितेजस्वितया परेषां केवलं त्रासमात्रं जनयति, अनया पुनहिंसयाऽत्यन्तमनुरक्तयाऽऽलिङ्गितमूर्तिर्महाप्रभावतया दर्शनमात्रादेव जीवितमपि नाशयति, तस्मादभिमुखीकर्तव्येयं कुमारेण, मयाऽभिहितमेवं करोमि, वैश्वानरेणोक्तं-‘महाप्रसाद' इति, ततो मार्गे गच्छन्नहं शशसूकरशरभशबरसारङ्गादीनामाटव्यजीवानां शतसहस्राणि मारयामि स्म, ततः प्रहृष्टा हिंसा, संपन्ना मय्यनुकूला । ततः कम्पन्ते मद्दर्शने जीवाः, मुञ्चन्ति प्राणानपि केचित्, ततः संजातो मे वैश्वानरकथितहिंसाप्रभावे प्रत्ययः, प्राप्ता वयं कनकचूडविषयाभ्यर्णे ।