________________
२33
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ Rats :
नरपतिरुवाचधर्मं यतो न कुर्वन्ति, स हेतुः प्रतिपादितः ।
भगवन्! नाशितोऽस्माकं, भवद्भिः संशयो महान् ।।१७७।। श्लोकार्थ :
રાજા કહે છે – જે કારણથી ધર્મને કરતા નથી=સંસારી જીવો ધર્મને કરતા નથી, તે હેતુ પ્રતિપાદિત કરાયો-સૂરિ વડે પ્રતિપાદિત કરાયો. હે ભગવન્! તમારા વડે અમારો મહાન સંશય दूर रायो. ||१७७।।
उत्कृष्टतमादीनां जनकादयः अत्रान्तरे तु सुबुद्धिमन्त्रिणाऽभिहितं-भगवन्! य एते जघन्यमध्यमोत्कृष्टोत्कृष्टतमरूपतया चतुर्भेदाः पुरुषाः पश्चानुपूर्व्या भगवद्भिः स्वरूपतो व्याख्याताः, एते किमेवंस्वरूपाः प्रकृत्यैव भवन्ति आहोस्विदेवंविधस्वरूपजनकमेतेषां किञ्चित्कारणमस्ति? इति कथयन्तु भगवन्तः । भगवानाह-महामन्त्रिन्! आकर्णय-न तावत्प्राकृतमिदमेतेषां स्वरूपं, किन्तर्हि ? कारणजं, तत्र ये तावदुत्कृष्टतमाः पुमांसः प्रतिपादिताः ते केवलमुत्कृष्टेभ्यो निष्पन्नस्वप्रयोजनतया भिद्यन्ते, न परमार्थेन, यतस्ते एवोत्कृष्टा यदावाप्य मनुष्यभावं, विज्ञाय भवस्वरूपमाकलय्य मोक्षमार्गं, तदासेवनेन दलयित्वा कर्मजालं, निराकृत्य स्पर्शनेन्द्रियं निर्वृतिं प्राप्ता भवन्ति तदोत्कृष्टतमा इत्यभिधीयन्ते, निवृतौ च तेषां स्वरूपेणावस्थानं, तामवस्थामपेक्ष्य न किञ्चिज्जनकमस्ति, तेनोत्कृष्टतमानां पुरुषाणां न कश्चिज्जनको जननी वा, एते पुनर्जघन्यमध्यमोत्कृष्टाः पुरुषाः संसारोदरविवरवर्तिनः स्वकर्मविचित्रतया जायन्ते, तस्मात्स एव कर्मविलासस्तेषां जनकः । तच्च कर्म त्रिविधं वर्तते, तद्यथा-शुभमकुशलं सामान्यरूपं च, तत्र या कर्मपद्धतिः शुभतया सुन्दरी, सा शुभसुन्दरी मनुष्यत्वेनोत्कृष्टानां जननी, या पुनरकुशलकर्ममाला (सा) जघन्यमनुष्याणां जननी, या पुनः कुशलाकुशलतया सामान्यस्वरूपा कर्मपद्धतिः सा मध्यमनराणां जनयित्री विज्ञेयेति । मनीषिणा चिन्तितं-अये! न केवलं गुणैश्चरितेन चैतेऽस्माकमुत्कृष्टमध्यमजघन्याः पुरुषाः समानरूपा भगवद्भिर्व्याख्याताः, किं तर्हि ? जननीजनकव्यतिकरोऽपि अस्माकमेतैः सह तुल्य एव भगवता दर्शितः, तस्मान्नूनमेतद्रूपैरेवास्माभिर्भवितव्यम् । तथाहि-योऽसौ भवजन्तुर्मा निराकृत्य निर्वृति प्राप्त इति स्पर्शनेनास्मभ्यं निवेदितो न तस्य तेन जननी जनको वा कश्चिदाख्यातः तस्मादुत्कृष्टतमोऽसाविति निश्चीयते । अस्माकं पुनस्त्रयाणामपि कर्मविलासो जनकः, भगवदादिष्टाभिधाना एव जनन्यः, तस्मादिदमत्रावसीयते यदुत-जघन्यो बालो, मध्यमो मध्यमबुद्धिः, उत्कृष्टोऽहमिति ।