________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
श्लोक :
इत्यालोच्य स्वयं चित्ते, हित्वा बालस्य शिक्षणम् । स्वकार्यकरणोद्युक्तो, मनीषी मौनमाश्रितः ।।४।।
दोडार्थ:
એ પ્રમાણે સ્વયં ચિત્તમાં આલોચન કરીને બાલને ઉપદેશ આપવાનું છોડીને સ્વકાર્યકરણમાં ઉધત મનીષી મોનનો આશ્રય કરે છે. Imall
___सामान्याया मध्यमबुद्धये मध्यस्थताऽऽदेशः इतश्च तस्यैव कर्मविलासस्य राज्ञोऽस्ति सामान्यरूपा नाम देवी । तस्याश्चाभीष्टतमोऽस्ति मध्यमबुद्धिर्नाम दारको, वल्लभतमो मनीषिबालयोः, क्रीडितस्ताभ्यां सह भूयांसं कालं, स च प्रयोजनवशाद्राजादेशेनैव देशान्तरं गत आसीत, इदानीमागतः, दृष्टौ मनीषिबालौ सह स्पर्शनेन, आलिङ्गितस्ताभ्यां स्पर्शनेन च । ततः सकौतुकेन मध्यमबुद्धिना कर्णाभ्यणे निधाय वदनं पृष्टो बालः-क एष इति? निवेदितो बालेनास्य यथा स्पर्शननामायमचिन्त्यप्रभावोऽस्मत्सहचर इति, मध्यमबुद्धिरुवाच-कथम्? ततः कथितो बालेन सर्वोऽपि व्यतिकरः, संजातो मध्यमबुद्धेरपि स्पर्शनस्योपरि स्नेहभावः । बालेनाभिहितं-भद्र स्पर्शन! दर्शयास्य स्वकीयं माहात्म्यम् । स्पर्शनः प्राह-एष दर्शयामि, ततः प्रयुक्ता योगशक्तिः, कृतमन्तर्धानं, अधिष्ठितं मध्यमबुद्धेः शरीरं, विस्मितो मध्यमबुद्धिः, प्रवृत्ता कोमलस्पर्शेच्छा, उपभुक्तानि ललितशयनसुरतादीनि, संजातश्चित्तालादः, प्रीणितो मध्यमबुद्धिः, प्रकटीभूतः स्पर्शनः, पृष्टं स्वप्रयाससाफल्यम्, अनुगृहीतोऽहं भवतेति निवेदितं सरभसेन मध्यमबुद्धिना । ततः पात्रीभूतोऽयमपि न दूरयायी वर्त्तत इति विचिन्तितं स्पर्शनेन । मनीषिणा चिन्तितं-वशीकृतप्रायोऽयमपि मध्यमबुद्धिरनेन पापेन स्पर्शनेन, अतो यधुपदेशं गृह्णाति ततः शिक्षयाम्येनं, मा भूदस्य मुग्धतया वराकस्य वञ्चनमिति । ततो रहसि मध्यमबुद्धिरभिहितो मनीषिणा-भद्र! न भद्रकोऽयं स्पर्शनो, विषयाभिलाषप्रयुक्तोऽयं लोकानां वञ्चकः पर्यटति, मध्यमबुद्धिरुवाच-कथम्? ततः कथिता मनीषिणा बोधप्रभावोपलब्धा समस्ताऽपि तस्य स्पर्शनस्य मूलशुद्धिः । मध्यमबुद्धिना चिन्तितं-स्वानुभवसिद्धा मम तावदस्य स्पर्शनस्य संबन्धिनी वत्सलता, अचिन्त्यप्रभावता सुखहेतुता च, अयमपि च मनीषी नायुक्तभाषी, तन्न जानीमः किमत्र तत्त्वम् ? किं वा वयमेवंस्थिते कुर्म इति? अथवा किमनेन चिन्तितेन? तावदम्बां पृच्छामि, तदुपदिष्टमाचरिष्यामीति विचिन्त्य गतः सामान्यरूपायाः समीपं, कृतं पादपतनं, अभिनन्दितस्तया, निविष्टः क्षितितले, निवेदितो व्यतिकरः । सामान्यरूपयोक्तम्वत्स! तावत्त्वयाऽधुना स्पर्शनमनीषिणोर्द्वयोरपि वचनमनुवर्त्तयतोभयाऽविरोधेन मध्यस्थतयैव स्थातुं युक्तं, कालान्तरे पुनर्य एव बलवत्तरः पक्षः स्यात् स एवाश्रयणीयः ।