________________
सर्ग-१०
वार्तारसेन संपूर्णाः, प्रायसः किमपि स्त्रियः । न जानंति ततः सोऽपि, परिज्ञातः कयापि न । कुर्वत्या रसतो वार्ता, स्त्रियः कस्याश्चिदुच्चकैः। तृषा लग्ना तदा तोयं, पातुं वाप्यां गतांगना ॥ सा तदा केवलं तत्र, पाषाणतृणसंचयं । ददर्श पतितं विष्वक्, सलिलं न मनागपि ।८९। तया कलकलारावं, जनयंत्या पिपासया। समागत्य बहिः स्त्रीणां, मुदितानां निवेदितं ।९०। स्वकमंडलुना भृत्वा, सलिलं वापिकाजलं। द्विजेन जीर्णवापीवा-स्माकं वापी विनिर्मिता ।९१। दर्शयित्वा चमत्कार-मीषदपि द्विजन्मना । आजन्मपापिना तेन, मुषिता मुषिता वयं ।९२॥ तस्या एवं वचः श्रुत्वा, वापी विलोक्य वेगतः । दधावुर्योषितः क्रुद्धा, जीवितव्याभिलाषुका ॥ धार्वत्यो वनिता याव-त्संप्राप्तास्तं त्रयीमुखं । नानाचेष्टां प्रकुर्वन् स, हट्टश्रेणीरुपेयिवान् ।९४। तत्र तासां लसच्छोभा, जहार सकलामपि । दक्षिणावर्तशंखाप्त-माहात्म्यमहरत्समं ।९५। पात्राणां यानपात्राणां, रत्नानां रत्नरोचिषां । प्रवालानां, त्वबालानां, धेनुभूघनजन्मनां ।९६। मुक्तानां शुचिशुक्तीनां, पारावारमुवां पुनः । कलधौतकलाधौत-ताम्रोद्यत्पित्तलायसां ।९७। शस्त्रशास्त्राग्रवस्त्राणां, गोधूमानां गरीयसां । चणकानां मसूराणां, तैलानां हट्टतिनां ।९८॥ सर्वेषामपि वस्तूनां, परावृत्तिमिति द्रुतं । हस्तसंस्पर्शमात्रेण, कुर्वन् भ्राम्यति वर्त्मनि ।९९। कोलाहलं प्रकुर्वाणा, वापीरक्षाकरा स्त्रियः । ददाना मुखतो गालीः, शापयामासुरुच्चकैः ।६००। तथा च जल्पयामासु-र्यावत्ताः कोपतो दृढं । तेनोर्ध्या तावदास्फाल्य, भंजितः स्वकमंडलुः ।। पानीयानि ततो भग्ना-त्पतितानि तथावनौ । प्रवाहः परितस्तत्र, प्रचचाल यथा महान् ।२। अहो कि वापिका भग्ना, स्फुटितं वा सरोवरं । आगागंगाप्रवाहः किं, दध्युर्यावज्जना इति ।३। तावत् पाथोधिवेलेव, कल्पांतकालसंभवा । तज्जलं सर्वतो व्याप्तं, विक्षोभनविधायकं ।।। तदा तत्र सुवर्णानां, रजतानां कदंबकैः । ताम्रपित्तलरत्नानि, शुक्तिमुक्ताफलान्यपि ।५। वस्त्राणि प्राज्यपात्राणि, क्रयाणकान्यनेकशः। सोऽप्लावयदगाराणि, सप्राकाराणि सर्वतः।। हट्टगेहादिकं वस्तु, निरीक्ष्य प्लावितं क्षणात् ।
जलं मा प्लावयत्वस्मा-निति भीत्या जना गताः ।७।
નગરીમાં પર્યટન કરતા પ્રદ્યુમ્ન, રત્નના પગથીયાવાળી સુંદર સુવર્ણની વાવ જોઈ. ત્યાં કેટલીક સ્ત્રીઓને સુંદર વસ્ત્રો અને આભૂષણે ધારણ કરીને ક્રીડા કરતી જોઈ. તેણે વિદ્યાને પૂછ્યું : “આ કેની વાવ છે જે વિદ્યાએ કહ્યું : “ભાનુકુમારની માતા સત્યભામાની આ વાવ છે. તેનું જલ લોકેના તાપ અને તરસ શાંત કરનારું છે. વિદ્યાનું કહેલું સાંભળીને પ્રદ્યુમ્ન વિદ્યાના પ્રભાવથી સ્નાન કરવાની ઈચ્છાવાળા, જરાથી જર્જરિત શરીરવાળા બ્રાહ્મણનું રૂપ કર્યું. ફક્ત કૌપીન (લંગટી) પહેરીને, જોઈને ધારણ કરી, એક હાથમાં કમંડલ અને બીજા હાથમાં દર્ભની ઝુડી રાખી, કાષ્ટની પાદુકા પહેરી, મુખેથી વેદવાક્યનું ઉચ્ચારણ કરતો, કંઠમાં રૂદ્રાક્ષની માળા ધારણ કરી તે શૌચકર્મમાં આસક્ત એવો વૃદ્ધ બ્રાહ્મણ બન્યો. દાંત પડી ગયેલા, માથાના વાળ ૧૨