________________
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
कौतुकं वर्ततेऽन्यच्च, युष्माभिः श्रूयते यदि । मया निगद्यते तहि, ता हास्यादूचिरे वद ।५७। तदा स ब्राह्मणोऽवोच-दस्ति दुर्योधनो महान् । कुरुदेशस्य साम्राज्यं, कुर्वन् योऽसहनोज्झितं ॥ तेन भानोः प्रदानाय, संप्रेषिता निजांगजा। अध्वन्यैव गृहीता सा, भिल्लभल्लादिकायुधैः॥ तैरादाय निजेशाय, सा कुमारी समर्पिता। तेनापि तां समालोक्य, मनसीति विचितितं ।६०। इयं राजकुलोद्भूता-हं तु भिल्लकुलोत्थितः । ममानया न सामग्री, विरुद्धा सर्वथा मिलेत् ॥ कश्चिद्राजकुमारः स्या-त्तस्यैवैषोचिता कनी। कुतश्चित्कार्यतस्तत्र, गतः समभवं तदा ।६३। मां दृष्ट्वा रूपसंपन्न, भूपालकुलसंभवं । जातहर्षेण तेनापि, ममैव सा समर्पिता ।६४। स्नाननिर्मितिमात्रेऽपि, निषेधः क्रियते कथं । ममापि राजपुत्रस्य, युष्माभिः कठिनत्वतः।६५। तेनाभिहितमाकर्ण्य, जगुस्तं भद्रकाः स्त्रियः । वृद्धोऽपि जीर्णदेहोऽपि, हास्यं त्वं न विमुंचसि ॥ ये स्युर्लज्जालवो वृद्धा, असत्यं ते वदंति न । निर्लज्जो लक्षणस्त्वं तु, ज्ञायसे यन्मुधावदः ।६७। आजन्मतोऽपि सत्यस्यः वर्मनि त्वं गतोऽसि न । वार्धकेपि ततोऽसत्यं, प्रजल्पस्यविवेकतः।६८। दुर्योधनेशितः पुत्रो, क्व वृता भटकोटिभिः । तस्या अपि किरातैश्च, ग्रहणं क्व दुरात्मभिः ।६९। पुण्यनैपुण्यतारुण्या, क्व सा कन्या सुयौवना । वृद्धस्य ते दरिद्रस्य, क्व वा तस्याः समर्पणं ।७०। स जगाद वचो यूयं, कुरुध्वं यद्यसूनृतं । आगच्छत मया साकं, युष्माकं दर्शयामि तत् ७१। प्रोचुस्ताश्च क्रुधा पापिन्, मुखमादाय गच्छत । दर्शनीयं जनन्यास्ते, त्वं प्रदर्शय सत्वरं ।७२। उभयोः कुर्वतोः काच-पिच्चं परस्परं रुषा। स्वकीयकलया वापी, प्राविशत्स शनैः शनैः।७३। तदातं ताडयामासु, पाणिभिः काश्चनांगनाः। सोऽपि प्रत्युत संजात-स्तासां सौख्यविधायकः।। रुपवत्योऽधिकं रुपं, तासु प्रापुर्मुगीदृशः । कुरुपा रुपसंपन्ना-स्तत्पाणिस्पर्शतोऽभवन् ।७५। स्थूलोदर्यः कृशोदर्यः, शुष्कस्तना घटस्तनाः । जातास्त्रुटितकर्णाश्च, संधितश्रवणाः क्षणात् ॥ श्यामलांग्यश्च गौरांग्यः, काणाक्ष्यस्तरलेक्षणाः । पिशंगकुंतलाः कांत-कचा मूका वचोवराः॥ ज्ञात्वा रुपमनोज्ञत्वं, बहिर्वाप्या विनिर्गताः। प्रशशंसुद्विजन्मानं, गुणज्ञा मत्तमाः स्त्रियः ७८॥ धन्यो धन्योऽवतारोऽस्य, धन्यौ च पितरौ क्षितौ । यत्स्पर्शाद्रूपसौन्दर्य-मस्माकं समजायत । प्रशंसामिति विप्रस्य, श्रुत्वा बहिःस्थिता अपि । मिलिताः प्रशशंसुस्तं, मनोज्ञरुपवांच्छया। ८०। अहो भूदेव वृद्धस्त्वं, स्तवनीयोऽसि भूतले । अपकर्तीष्वपि प्राज्यो-पकारस्य प्रकारकः ।८१। तासामपि कृता तेन, रुपशोभनता तनौ । सर्वा अपि मिलित्वा त-त्पश्यंति रुपमात्मनां ।८२॥ वदत्येका प्रजातं ते वदनं सदनं श्रियां । त्रुटितौ श्रवणी जातो, संधिताविव शोभनौ ।८३। एकाऽवक्सुभगे नेत्रे, पवित्रे ते बभूवतुः । एकावक्सखि ते रम्या-वधरौ च भुजौ खलु ।८४। शुष्कस्तनौ घनौ पीनौ, ते जातावित्यवक्परा । कांतः कटिप्रदेशश्च, जातःपंचाननोपमः।८५। प्रशंसामिति कुर्वति, कांता वाप्या बहि स्थिताः । यावत्कुंडिकया तेन गृहीतं वापिकाजलं ॥