________________
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
तदर्थं नीयमानापि, विचाल एव पातकान् । मलिम्लुचैर्गृहीताहं, केनापि नो निवारिता । १९ । नारदर्षे ! कृपासिंधो, सर्वरामासहोदर ! । मय्यपह्रियमाणायां, दया तवापि नोऽभवत् ॥ २० ॥ आशैशवात्त्वया मातः, पालिता वधताप्यहं । पुलिदैर्गृह्यमाणाया-श्चिता मे न कथं कृता । २१ । प्रेषिता प्रौढसैन्येन, विज्ञाय स्थानकं महत् । एतस्मिन् समये तात, विमुक्तैकाकिनी कथं ॥ २२ ॥ ममोपरि महाप्रेम, भवंतो दधतोऽभवन् । सहोदरा गताः कुत्र, संप्रति स्नेहवजिताः | २३ | हा हाथवा मया ज्ञातं, संसारस्य स्वरूपकं । संकटे कोऽपि रक्षायाः, कारको न भवेदिह । २४ दुःखश्रोता मिलेकोऽपि तदा दुःखं स्फुटीभवेत् । इत्यालोक्य मुनिं कन्या, विललाप मुहुर्मुहुः ॥ दुःखस्यापि सुखस्यापि प्रांतो- ऽस्त्येव कदाचन ।
विलप्येति यदा किंचित्, स्वस्था बाला बभूव सा । २६ । नारद सा ततोsवादी - त्तातैतस्य दुरात्मनः । ईदृशी विद्यते विद्या, कथं गगनगामिनी ? | २७ । कोsपि रुपपरावृत्त्या वृंदारकः समस्त्यसौ । विद्याधरोऽथवा कोऽपि, कोऽपि किनरनिर्जरः ॥ २८ ॥ सममेतेन दुष्टेन जाता ते संगतिः कथं । यद्वा मद्वद्गृहीतोऽसि तात त्वमपि पापिना । २९ । अहं तु प्रविधास्यामि, प्राणानां व्यपरोपणं । भाविनी का गतिस्तत्र, चितेति मम वर्तते ॥३०॥ तस्याः श्रुत्वा वचांसोति, स्मित्वाचे मुनिनारदः । हर्षास्पदे कथं खेदं करोपि पुत्रि ! मौढयतः ॥ रुदती सावदत्तात, हर्षः कोऽत्र निरूप्यतां । मुनिः प्राह पितृभ्यां त्वं यस्य दत्ताभवत्पुरा ।३२। रुक्मिणीतनयः सोऽय-मचित्यशक्तिसंयुतः । भाग्येनात्र समेत्य त्वं गृहीतानेन धीमता ॥ ३३ ॥ निशम्येति जगौ कन्या, मुने! मां किं नु वचसि । नेदृशः सर्वथा भावी, स तु राज्ञोऽस्ति नंदनः ॥ मुनिः प्राशं रुपं, वीक्ष्य मुग्धे विषीद मा । अभ्रं राच्छादितोऽर्कः किं स्यात्स्वतेजः प्रकाशकः ॥ तथा रुपविभेदेन, विज्ञेयोऽयमपि त्वया । आगात्त्वदर्थमेवात्र, विद्याधरनिवासतः । ३६। एकस्य वांछना यह, द्वितीयस्य न सा भवेत् । तदा द्वयोरपि प्रौढा, भवेदुःखपरंपरा |३७| अत्रैतस्य तवाकांक्षा, तवापि साऽभवत्पुनः । उभयोर्युवयोर्जाताः, पूर्णास्तेन मनोरथाः ॥ ३८ ॥ ततस्त्वं मानसं खेद, परित्यज्य मृगेक्षणे ! । स्वभाग्यमद्भुतं भूमौ जानंती भज संमद । ३९ । कोमलैर्वचनैरेवं, स्वस्थीकृत्य च तां कनीं । निजरुपप्रकाशाय, मुनिरुचे मनोभवं ॥४०॥ कीर्तये नातिदृष्टिः स्या- ल्लज्जायै नातिजल्पनं । न चातिभक्षणं पुष्ट्यै, न स्नेहायातिरोषणं ॥ नातिक्रीडनमाभाति न चातिहसनं मुदे । स्वरुपं प्रकटीकृत्य, तदेनां त्वं प्रमोदय । ४२ । प्रद्युम्नेन पुरतस्य समस्ति स्वीकृतं वचः तदेष सर्वलोकानां पूज्यो जातोऽस्ति भूतले |४३| मानयिष्याम्यहं नो चे- देतस्य सांप्रतं वचः । ममैव भाविनी हानि - स्तत्तेनापीति मानिते ।४४ ॥ स्वीकृत्य वचनं तस्य, व्यक्तीकृत्य स्वरुपकं । अभ्रान्मुक्तः शशीवासौ, हारैस्ता रोज्ज्वलैर्बभौ ॥ चारुचातुर्यलावण्या, मनोहरकलावतः । रोहिणीव शशांकस्य, सा रेजे तस्य सन्निधौ ॥४६ |
७२