________________
सग-१०
ग्रहणं राजकन्याया, दूरे तिष्टतु सर्वथा । नास्ति दर्शनमप्यस्य, वराकस्य तवाग्रहात् ।५९। लंबोदरं च कृष्णांगं, पिंगलकचधारिणं । त्वां दृष्ट्वान्यवशा बिभ्येत, कि पुना राजकन्यका ॥ अस्ति यहि सुरूपायाः, कन्यायास्तव च स्पृहा । तर्हि भैरवझपांत्वं, प्रदाय कामनां कुरु ।६१। यथा जन्मांतरेऽपोष्टा, तां प्राप्य रूपसुंदरीं। वांच्छितां चापि कालेन, पूर्ण कुर्या मनोरथं ।६२॥ केचित्कोपेन जल्पंति, किमेतेन कुरूपिणा । ग्रथिलेन समं वार्ता, भवद्भिः प्रविधीयते ।६३। संस्थास्यत्ययमत्रैवा-स्माकं तु गमनं महत् । गले धृत्वा विदूरेऽमुं, कृत्वा चलत सत्वरं ।६४। वयं क्षत्रियजातोया, अयं पुलिंदजातिजः। सर्वथास्माकमेतस्य, न योग्या शुल्कदानिता ।६५। भविष्यति मुकुंदस्य, शुल्काध्यक्षोऽत्र यद्ययं । तहि प्रकुपितश्चित्ते-ऽस्माकं किं स करिष्यति ।६६। यदि कश्चिद्भवेदत्र, क्षत्रियो भूपनंदनः। दीयतेऽपि तदा किंचि-त्तस्मै शुल्काधिकारिणे ।६७। ब्रुवाणा इति ते दात्, सुभटा गंतुमुत्सुकाः । यावदासन् प्रतोल्येव, तान् धन्वना रुरोध सः ॥ धनुरेकमपि प्राप, विस्तारतां समंततः । विहायसींद्रधन्वेव, पंचवर्णसमन्वितं ६९। तानिरुध्याखिलास्तेन, धनुषा शक्तिशालिना । अट्टहास्यं प्रकुर्वाणः, सर्वानिर्भर्त्सयन् जगौ ७०। विजिता विचारेण, रे मूर्खा मे कुरु प्रभोः । कथं न दीयते पुन्नी, युष्माभिरल्पबुद्धिभिः।७१। अहं तु वासुदेवस्य, प्रथमस्तनयो नयी। प्रवर्ते काननावास-विधायिनां शिरोमणिः ॥७२॥ भवंतो यदि जानंति, मिथ्याप्रजल्पकं हि मां । तहि दत्वा कनी पूर्व, पृष्टव्याः सकला अनु । सांप्रतं चेन्न दास्यंति, भवंतो मम कन्यकां । पश्चातापं विधास्यंति, पुनः प्रचलिता इतः ।७४। वनेऽत्र वसतः कन्यां, यूयं चेन्मम दास्यथ । तदैव वासुदेवोऽपि, परमां मुदमाप्स्यति ।७५। युष्माभिः कथ्यते कन्या, नास्तीदृशीह संसृतौ । मया प्रोच्येत मत्तुल्यो, वरः कोऽपि न लप्स्यते ॥ सदृशे मिलिते योगे, विचारः क्रियते कथं । संप्राप्ते समये येन, विचार्यते जडो हि सः ७७॥ गमिष्यथैव चेयूयं, मामुपेक्ष्य पराक्रमात् । धीरा भवथ तत्तावद्यावद्यत्नं करोम्यहं ।७८॥ ते प्रोचू रे पुलिंद! त्वं, कुरु यत्नं यथेप्सितं । यत्ने कृतेऽपि यास्यामो, हत्वा त्वामात्मशक्तितः॥ इति श्रुते पुलिदस्य, वेषधारी स विद्यया। सीसीत्कारं च कृत्वा द्राग, मेलयामास भिल्लकान् । तथा तत्राभवत् सैन्यं, भिल्लानामेव केवलं। तैरेव वेष्टितं कन्या-सैन्यं पूषेव दुर्दिनः ।८१॥ कुरुदेशभटा यद्य-प्यायुधैर्विविधैर्युताः। तथापि तेऽभवंस्तेषां, रुपैः शस्त्रैर्भयंकराः ।८२। पृथिव्यां कानने शैले, कंदरायां समंततः । किरातानेव कृष्णांगा-नद्राक्षुः कुरुदेशजाः ।८३। गृह्णीत च निबध्नीत, गच्छंत्येते क्व पापिनः। इति बुबां प्रकुर्वाणाः, समेता भिल्लकोटयः।८४। मस्तके पल्लवश्रेणि-रचितोन्नतमौलयः । पादपानामनेकानां, फलैः कल्पितहारकाः ।८५। बृहत्पलाशपत्राणां, कृतातपत्रखेटकाः । हस्ते धृतहषत्काष्ठ-यष्टयो विधिधायुधाः ।८६। उद्घाटितशिरोदेशे, बद्धकेशकलापकाः । धावंतः कुरुदेशीयविरुथिनीं जिघृक्षया ।८७।