________________
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
ईदृक्षं कुरुदेशीयाः, कुरूपं वीक्ष्य पुरुषाः । धनुःसंधितबाणं तं, जहसुः स्थितमध्वनि ।३१। यावत्ते भौजनं कृत्वा, चेलुरग्रे यियासया। मार्ग निरुद्धय तावत्स, जगौ तान् कोपपूरितः ॥३२॥ यूयं यद्यपि वर्तध्वे, सुभटाश्च मदोत्कटाः । तथापि पदमात्र न, गंतुं दास्यामि सर्वथा ।३३। कुमाराः कौरवा वीरा, हसंतः क्रीडयाब्रुवन् । किमर्थं रे पुलिंद त्वं, मार्ग रुध्ध्वा स्थितः पुरः॥ आरोग्य भकुटि भाले, कोदेडे च शिलीमुखं । सोऽवक्साधुस्थितोऽस्म्यत्र. युष्माकं जनकस्य किं॥ पुनस्ते जगदुः कस्य, सेवकस्त्वं प्रवर्त्तसे। क्रोधेनाभ्यदधत्सोऽपि, विष्णोः शुक्लधरोऽस्म्यहं।३६। कृष्णस्य शौल्किकत्वेन, तेऽपि कोमलया गिरा । आचख्यू रे किमस्माकं, करिष्यसि वनेचर !॥ अथवा कथमस्माकं, गंतुं दास्यस्यतो वनात् । सोऽप्याह भागधेयं मे, दत्वा यात नृपा इव ॥ कृष्णप्रीत्य जगुस्तेऽपि, विष्णोस्त्वं शौल्किकोऽसि यत् ।
ततः संताप्यतऽस्माभिः, कथं वृद्धत्वसंयुतः ॥३९। कटकेऽत्र प्रवर्तते, गजवाजिपदातिकाः। रुप्यकाश्चनरत्नाद्याः, पदार्था अपरेऽपि च ।४०। तेषु यत्त्वं विजानीया-स्तवोचितं च सुंदर! । शुल्कस्थाने गृहीत्वा त-देह्यस्मान् गंतुमुत्सुकान्॥ अमर्षादवदत्सोऽपि, किं सार्थलुटकोऽस्म्यहं । यतो मे दर्शिता एते, पदार्थाः सैन्यवर्तिनः ।४२। यूयमेव विजानीथ, यत्सारं मम भोगकृत् । दत्वा तत्कुशलेनातः, काननाद्गच्छत द्रुतं ।४३। भवतां चलतां विघ्नो, भविष्यत्यन्यथाध्वनि । संतोषिते शुल्काध्यक्ष, निर्विघ्नता भवेत्खलु ॥४४॥ केचिद्वदंति हास्येन, सैन्येऽव सकलादपि । सारं भोगकरं भूमि-पालपुत्री प्रवर्तते ।४५। सारे वस्तुनि चेद्वांछा, विद्यते तव चेतसि । तहि त्वं तां समादत्स्व, स्वच्छरुपविलासिनीं ॥४६॥ हसित्वोचे तदा भिल्लो, भवंतो भाग्यभाजिनः। महांतः संति मेदिन्यां, तामेव दीयतां मम ॥ एकाकित्वेन तिष्ठामि, गहने काननेऽत्र हि । कापि रंधनक/ मे, नास्ति स्त्री परिचारिणी ॥४८॥ तेऽपि जल्पयितुं प्रोचुग्रंथिलत्वयुतं वचः । भक्षणं परिधानं च, त्वत्तः सा मार्गयिष्यति ।४९। स प्राह मम किं नास्ति, वनेऽत्र भक्षणं वरं । बदरीवटवृक्षादि-फलानि संति भूरिशः ॥५०॥ भूर्जत्वबहिबर्हाणि, द्राक्पपरिधापयिष्यते । कारयिष्यामि शृंगारं, गुंजाफलकपर्दकैः ।५१॥ मयि संतोषितेऽवश्यं, सारसंपत्तिसंयुते । युष्माकमुपरि प्रीति, मुकुंदोऽपि करिष्यति ॥५२॥ कृष्णेनापि मम प्रीत्य, प्रोक्तमस्ति वचः पुरा। सार्थेऽत्र वहमाने यत्सारं ग्राह्यं त्वयैव तत् ॥ ततश्चेतसि माकाट, यूयं विचारचातुरीं । समर्प्य कन्यकां मां, क्षेमेण व्रजताभितः ।५४। केचित्प्रोचुर्मुकुंदेन, वचनं प्रोक्तमस्ति चेत् । तमुत्र बहवः सार्था, भविष्यति गताः पुरा ।५५। तेषां किमपि नो सारं, त्वत्पार्वे वस्तु दृश्यते । दरिद्रपुत्रक एवा-जन्मतस्त्वं समीक्ष्यसे ।५६। स प्राह रे स्वरुपं मे, यूयं जानीथ नो शठाः । अहं दाता च भोक्ताहं, दत्तं भुक्तं च तेन तत् ।५७। केचिदाहुररे मूर्ख ! , वैकल्यं किं करोषि च । तव सर्वमपि ज्ञात-माजन्मतः स्वरुपकं ५८॥