________________
૫૮
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
तस्य दीप्रप्रतापस्य, न्यायेन राज्यपालनात् । सापि न्याययुता जाता, प्रजा राजानुयायिनी ।२०। अन्यदा दृष्टुमारामं, दलैः सुमैः फलैरपि । वर्धितश्रियमायातो, वसंत इव भूधवः ।२१॥ क्षणं स मालतीपुष्पं, क्षणं जातिसुमं पुनः । आम्राणां मंजरी जिघ्र-श्चंचरोक इवाऽभ्रमत् ॥ क्षणं गृह्णन् स्वहस्ताभ्यां, विविधानि फलानि च । अशोकादिकपुष्पाणि, तत्र कामीव सोऽजनि।। समंतात्स्वेच्छया भ्राम्यन्, वीक्षमाणो वनश्रियं । सहकारतले मत्यं स्थितं ददर्श पार्थिवः ।२४। आच्छादितं सुवस्त्रेण, दर्शनार्थमिवेशितुः । पश्यंत फलकं भूय-स्तं निरीक्ष्याब्रवीन्नृपः ।२५। अहो पुरुष किं वारं-वारं त्वमवलोकसे। सोऽवक किमपि नास्तीदं फलकं वर्तते मम ।२६। तदा भूपः पुनः प्रोचे, ममाऽपि त्वमदर्शयः । पृष्टमित्याग्राहाद्यावत्तावत्तेनाऽस्य दर्शितं ।२७। चित्रितमंगनारूपं समालोक्य स भूपतिः । स्वयमप्यभवत्तद्वत् क्षणजीवितधारणात् ।२८। अहो सुरूपमेतस्या, अहो लावण्यमद्भुतं । चित्रस्था जीवशून्याऽपि, हरतेऽसौ मनो नृणाम् ।२९। अहो प्रवेणिदंडोऽस्याः, कृष्णकाकोदरायते। तथाप्यालिंगनोत्कंठां तनुते न भयं वपुः ।३०। औपम्यं यन्निशीभर्तुरस्या वक्त्रेण वर्ण्यते। कवीनां तदपांडित्यं, चन्द्रेऽस्ति हि कलंकिता।३१। अहो स्त्रीणामपीदृक्षं, रूपं स्यादिति चितयत् । ऊढाऽनूढाऽथवाऽस्तीयमित्याशंक्य जगौ स तं ॥ हे मर्त्य ! कलया रूपमेतत्त्वया विचित्रितं । किं वा दृष्टचरं लोके, पर्यटनं प्रकुर्वता ॥३३॥ सोऽप्यब्रवीद्विभो ! शौर्यपुरेशोऽधकवृष्णिजाः । दशार्हा दश वर्तते, तेषामेषा लघु स्वसा ॥३४॥ नामतो वर्तते कुन्ती, कुन्तीभूता स्मराकुले। स्त्रियो निर्भर्त्सयंती च, रुपेण शैशवादपि ॥३५॥ तस्या रुपमिदं चित्रे, विज्ञानेन विचित्रितं । नत्वदृष्टचरं क्षोणीभत ! आलेखितं मया ।३६। अन्यदा जनकस्तस्या रुपमालोक्य सुंदरं । नरे(तस्याः)सहग्धवाभावान्मग्नश्चिन्तापयोनिधौ ॥ इति प्रोक्तं समाकर्ण्य, दानेनावयं तं नरं । गृहीत्वा फलकं रागाद्वनवोथिमगान्नृप ।३८॥ फलके चित्रितं रुपं, दर्श दर्श महीपतिः । दधानो मदनोद्रेक, विस्मयेन व्यचारयत् ।३९। नीलोत्पलानि नेत्राभ्यां, कुचाभ्यां कलशावलीं। दोर्दडेन मृणालान्यं-गुलीभ्यां वरपल्लवान् ॥ वीराणामपि जंतूनां, भयंकरमपि द्रुतं । कट्या पंचाननं भीम, वनावस्थितिकारिणं ।४१। समस्तास्वपि वामाक्षी-प्वेषा रेखासमन्विता। शैशवेऽपि जयत्येषा, यौवने किं करिष्यति ॥ इयं मनुष्यधर्मत्वा-द्विवाहाय सुपर्वणां । न योग्या सर्वथा मर्त्य-लोके को भविता पतिः ।४३। विमृशन्निति भूपालः फलितां फलदालि। क्षणं च फलके रुपं, पश्यश्चित्तं द्विधा व्यधात् ।४४। तस्य क्षमाधिनाथस्य, द्वैविध्येन च चेतसः । सर्वत्रापि तथैवाभूत्, सर्वहेतुर्ह देव हि ।४५। नारिंग नागरंग च, बकुलं कलिकारकं । अशोकं शोककर्तारं, क्रकचं क्रकचच्छदं ।४६। कदली स्तंभसंकाशां, नागल्लि लतामिव । मालती प्रौढसंतापां, जाति जातिविनाशिनी।४७। उष्णत्वं वापिकावारि, दीर्घिकास्वप्यदीर्घतां । स कासारेष्वसारत्वं, जानन बभ्राम कानने।४४॥