________________
શાંખ–પ્રદ્યુમ્ન ચરિત્ર
यद्भुक्तं घृतपूरादि, पक्वान्नं चारुपायसं । जठरांतः प्रविष्टं तद्भवेद्दौगंध्यसंयुतं ॥ ७१ ॥ यासां मृगीदृशां रूपं, वक्त्रकटाक्षविभ्रमान् । अवलोक्य प्रजायेत, शरीरी विकलस्त्रिधा ॥७२॥ तदंगे द्वादशश्रोत्र - श्रवद्दौगंध्यमुच्चकैः । मूढात्मानो न जानंति, कि मोहाच्छादिताशयाः ॥७३॥ आश्रवाणां च पंचानां संवरः स्यान्निरोधकः । जिनेद्वेधा स तु द्रव्य-भावभेदेन भाषितः ॥ शिरोनयनहस्तानां चरणानां तथैव तत् । यतः संवरणं भूयात् स द्रव्यसंवरः स्मृतः ॥७५ | क्रोधतो मानतो दुष्ट-मायातो लोभतस्तथा । मनसः संवृतिर्या स्यात् स भवेद् भावसंवरः । यत्क्षुधातृषया शीता - तपाभ्यां दुःखवेदनं । निर्जरा सोदिता सार्वैः, सकामाकामभेदतः ॥७७ विपत्तावामये दुःखे, संकटे च समागते । स्वकर्माण्येव यः शोचेत्, सकामा तस्य निर्जरा ॥७८॥ यस्तदा परकीयानि, दूषणानि विचितयेत् । अकामा निर्जरा तस्य, संजायते शरीरिणः ।।७९ ॥ नरके नरनारीर्यो, निपतंतीः समुद्धरेत् । धर्मोऽभिधीयते तेना-नादिकालं जिनेश्वरः ॥८०॥ पापिनामपि मर्त्यानां कालत्रयप्रवत्तिनां । उद्धारकरणाद्धर्मः, सत्यां प्रकुरुतेऽभिधां ॥८१॥ अतीते समये मर्त्या श्वतुर्हत्याविधायिनः । आसन् दृढप्रहार्याद्या-स्तेऽपि धर्माच्छिवं गताः ॥
मांसोऽनागते काले, सेत्स्यत्यपि च धर्मतः । द्वैपायनादयो दुष्टा, भूयः संहारकारिणः ॥ ८३ ॥ कैवल्यगमनौचित्यं, क्षेदे बिभ्रति सर्वदा । वर्तमानेऽपि काले च सिद्धयंति धर्मतो जनाः ॥ ज्ञातव्योऽयमुपास्योऽयं, ध्यातव्योऽयं मनीषिभिः । कर्तव्योऽयं विशेषण, धर्मः सर्वार्थसाधकः ॥ धर्मेण वांछितं सौख्यं धर्मेण रोगहानयः । धर्मेण कुलवृद्धिश्व, धर्मेण शिवसंपदः ॥८६॥ वैशाखस्थानकस्थस्य, कटिस्थितकरस्य च । नरस्य तुल्ययाकृत्या, लोक एष प्रवर्तते ॥८७॥ धर्मास्तिकायाधर्मास्ति कायाकाशास्तिकायकाः । पुग्दलजीवास्तिकायौ, कालोऽस्तिकायवर्जितः एभि: षड्भिर्भृतो द्रव्यैः स्थित्युत्पत्तिव्ययान्वितः ।
"
ब्रह्मादिभिः कृतो लोको, नायमाधारवर्जितः ॥ ८९ ॥ अनाद्यनंतसंसारे, जीवेन भ्रमता सता । स्थावरत्वं त्रसत्वं वा, लभ्यते कर्मलाघवात् ॥ ९० ॥ ततः पंचेंद्रियत्वं च मानुष्यमार्यदेशक: । सर्वाक्षपटुता जातिः प्रभुता प्राप्यतेतमां ॥ ९१ ॥ प्राप्तेष्वपि पदार्थेष्व-मीषु सर्वेषु चारुषु । बोधिबीजं मनुष्याणां, माणिक्यमिव दुर्लभं । ९२ । भास्वतीर्भावयन्नेता, भावना भवभेदिनी: । स साधुः सर्वसत्त्वेषु, साम्यं विशेषतो दधौ ॥९३॥
૨૬:
१. अनित्य २. अशय 3. ससार ४. खेडत्व प. स्यमन्यत्व ६. याश्रव ७. अशीय ८. सौंव२ ९. निर्भ२। १०. धर्म भाहात्म्य ११. बोलावना भने १२. मोधिहुर्सल भावना. પ્રદ્યુમ્નમુનિ આ બાર ભાવનાનુ હંમેશાં પરિશિલન કરતા હતા.
१ : अनित्यभावना.
સુદર અશન, પાન, ખાદિમ અને સ્વાદિમ આ ચાર પ્રકારના આહારથી શરીરને પુષ્ટ કરવામાં આવે છતાં આ શરીર વિજળીના ચમકારાની જેમ ક્ષણુ વિનાશી છે. હસ્તિ, અશ્વ અને