________________
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
ક્ષેમકુશલપૂર્વક લાભ લઈને આવતા પ્રદ્યુમ્નને જોઈને ઈર્ષાળુ વિદ્યાધરકુમારે કાયાને ભય પમાડનારી ભયંકર ગુફાની સમીપે આવ્યા. વજમુખે કહ્યું : “આ ગુફામાં જે પ્રવેશ કરે તેને ઈચ્છા મુજબ રૂપ કરવાવાળી શક્તિ મળે છે.” સાંભળીને પ્રધુમ્ન તરત જ ગુફામાં ગયે. તેના સાહસથી પ્રસન્ન થયેલા ગુફાપતિ અસુરે પ્રદ્યુમ્નને ક્યારે પણ કરમાય નહિ તેવી પુષ્પની દિવ્ય શય્યા તેમજ પુષ્પનું ઉત્તમ છત્ર આપ્યું.
तदादायागतं वीक्ष्य, जगदुः क्रोधतः खगाः । ज्येष्टबंधो दुराचारं मारयामो ह्यमुं वयं ॥३५॥ स प्रोवाच प्रतीक्षध्व-मद्यापि स्थानकद्वयं । तेनैवास्य वधश्चेत्स्या-दात्मभिर्हन्यते कथं ।३६। मान्यं स्य दाग्रजं वावय-मिति तद्वचनेन ते । मायया तं पुनर्निन्युः, काननं विधुलाभिधं ॥३७॥ तत्र शैलो जयंतोऽस्ति, जयंत इव दुर्धरः । तमालोक्याग्रजः प्राह, गत्वायात्यत्र यो नरः ॥३८॥ संप्राप्य चितितार्थं स, भवेन्नाकीव भूतले। मन्यमानः प्रतीति त-द्वचने मदनोऽगमत् ।३९। वनस्य तस्य मध्ये स, यावद्राभस्यता व्रजेत् । तावत्तेन जयंताह्वः, समैक्ष्यत शिलोच्चयः ।४०। नदी तस्य समीपेऽस्ति, पदगंधिजलान्विता । उपतीरं तमालाद्यैः, पादपैः परिवेष्टिता ।४१॥ एकस्याधस्तमालस्य, शैलपट्टेऽतिसुंदरे । पद्मासनसमासीना, ध्यानलीनास्ति कामिनी ॥४२। चलेक्षणापि स्थिर हग्, चलचित्तापि बद्धहत् । चलांग्यपि दृढतनु-र्यानयोगेन साऽभवत् ।४३। योगिनीमिव नासान-निहिते क्षणयामला। बिभ्रती स्फाटिको मालां, पाणौ जापचिकीर्षया ॥ देहे परिहितक्षीरो-दकां श्लथशिरोरुहैः । आच्छादिता सयुग्मां च, ध्यानकानसमन्वितां ॥४५॥ तन्वंगी सुविशालाक्षी, पीनोन्नतपयोधरां। स्फारवक्षःस्थलां सूक्ष्म-कटिप्रदेशधारिकां ॥४६॥ दधानामपि दंतेषु, श्वैत्यं रक्तत्वमोष्टयोः । प्रसन्नत्वं मुखे भूयः, कृष्णत्वं दृष्टितारयोः ।४७। स्वर्ण निर्भर्त्सयंती च, स्वशरीरस्य कांतिभिः। विनीलैंस्तिलकर्देह-श्रितैरिदीवरश्रियं ॥४८॥ सकलैर्लक्षणः पूर्णा, वर्णनीयां विचक्षणः । मनोनयनसंतोष-कारकाकृतिसुंदरां ।४९। राहित्यतः कलंकस्य, वदने सदने रुचां । जयंती षोडशकला-बिभ्राणमपि चंद्रकं ५०। तामिहशी समालोक्य, प्रद्युम्नो विस्मयाकुलः । स्वचित्ते चितयानास, तद्रूपमग्नलोचनः ।५१। रंभा किमुर्वशी नाग-कुमारकामिनी किमु । कि किन्नरी किमिद्राणी, कि वा पातालसुंदरी ॥ सर्वासामपि कांताना-मादाय रुपसंपदं । एतस्या विधिना रुपं, चक्रे लावण्यवारिधि ।५३। रुपं तस्याः समालोक्य, चित्रचित्रितमर्त्यवत् । इतस्ततः प्रयातुं, न समर्थों मदनोऽभवत् ।५४। तत्र स्थितो बलिष्टोऽपि, जितानेकसुरोऽपि च । मदनस्त्वक्षमो गंतुं, पीडितो मदनेषुभिः ।५५। तावत्समागतस्तत्र, श्रीवसंताभिधः सुरः। प्रणम्य तत्पुरः सेवा-कर्तेव सोऽपि संस्थितः ।५६। प्रद्युम्नेन तदा पृष्ट, महाभाग निवेदय । केयं कन्या कथं चास्मि-न्नरण्ये समुपागता ।५७। कस्य वा तनया लीला-वत्या अस्याश्च नाम किं । इत्युक्तः स पुरस्तस्य, तदा जगाद सादरं ॥ प्रभंजन इवाराति-पयोदपटलीहते । अत्र प्रभंजनो विद्या-धराणामस्ति नायकः ।५९।