________________
સ-૧૫
૨૫૯
अद्य धन्योऽवतारो मे, धन्ये अद्य विलोचने । येनाहाराय पश्याम्या - गच्छंतममुमंतिके ॥ २५ ॥ समागतं समालोक्य, बलभद्रं महामुनिं । पंचांग प्रणिपातेन, प्रणत्य रथकृज्जगौ ||२६|| प्रसारय प्रभो पात्र, पात्रं त्वत्तोऽपरो न हि । गृहाण त्वमिनां भिक्षां, मां निस्तारय संसृतेः । आदरं रथकारस्य, निरीक्ष्य मुनिपुंगवः । संतुष्टोऽभूत् प्रदत्ताहि, भिक्षादरेण सत्फला |२८| अज्ञासीन्मुनिरप्युच्च — रहो भाग्योदयो मम । काननेऽपि हि निर्दोष - माहाराप्तिरजायत । २९ । आहारं न ग्रहिष्यामि, यद्येनं दोषर्वाजतं । मम तर्हि शरीरस्य, धारणा न भविष्यति ॥ ३० ॥ अस्यापि मिलितस्वर्गो - चितकर्मदलस्य च । अंतरायविधानेऽहं भविष्यामि निबंधनं ॥३१॥ मत्वेति मुनिना पात्रं, पुरतस्तस्य मंडितं । तदा तुल्यगतिग्राही, पार्श्वस्थोऽचितयन्मृगः ॥ ३२ ॥ धन्यो मुनिरयं येन, निर्दोषाशनमाप्यत । धन्योऽयं रथकारोऽपि येनाहारः समर्पितः ॥ ३३ ॥ तिर्यग्भवधरं मां धि-ग्दानपुण्यविवर्जितं । निदन्निति निजं कर्म, स भावनामभावयत् ॥३४॥ निरवद्याशनावाप्त्या, पात्रप्राप्त्या च वर्धकिः । मृगी भावनया शुद्धा - स्त्रयोऽपीमेऽभवंस्तमां । अभूद्यो रथकारण, मुक्तोऽधंच्छिन्नपादपः । स वातेन प्रचंडेन, पपात तत् त्रयोपरि ॥ ३६ ॥ निहतास्तरुपातेन त्रयोऽपि प्राप्तमृत्यवः । ऊत्पेदिरे ब्रह्मलोक - पद्मोत्तरविमानके ॥३७॥ अवलोक्यावधिज्ञाना-द्भ्रातरं नरकस्थितं । रामजीवसुरस्तत्त्र, गतवान् बंधुमोहतः ||३८|| गत्वा चालिंगनं दत्वा, जगाद केशवं सुरः । भ्रातस्त्वत्स्नेहतः स्वर्ग-लोकान्मिलितुमागतः ॥ ततो ब्रूहि तवाभीष्टं किं समस्ति करोमि तत् । कथयित्वेति तेन स्व- पाणिभ्यां स समुध्धृतः ॥ बलदेवकरस्पर्शा-द्वपुस्तस्य पृथक्पृथक् । भूत्वा च न्यपतत्सूत इवामिलत्पुनर्द्रतं ॥४१॥ शरीरं मिलितं यावत्समस्तमपि तावता । उपलक्ष्य बलं बंधु, नत्वा च प्राह माधवः ॥ ४२ ॥ भ्रातः श्रीनेमिना पुण्यात्प्रोक्तस्त्वं स्वर्गगामुकः । अहं तु विषयासक्तः, कथितो नरकातिथिः ॥ तत्सर्वमेव संजातं, सूनृतं नेमिभाषितं । भुंक्ष्व तेन दिवः सौख्य - महं नरकदुःखितां ॥ ४४ ॥ अथ चेत्तव सामर्थ्यं, तदेतो मां समुद्धर । सुरः प्राह तदुद्धार, इतः कर्तुं न शक्यते ॥४५॥ अन्यत्किमपि यत्ते स्या-द्वांच्छितं विदधामि तत् । अथवा सन्निधानेऽहं तिष्ठामि प्रीतये तव । कृष्णः प्राह यदि भ्रातः स्थितस्त्वं मम सन्निधौ । तथापि निजकर्मोच्यं दुखं न याति नारकं । कर्मणोपार्जिते दुःख - सौख्ये शरीरधारिणां । स्वयमेवोपभुज्येते, अपरेण न केनचित् ॥ ४८ ॥ अवस्थयैतया मित्र, मोक्ष्ये दुःखं स्वकर्मजं । अत्र स्थितोऽहमेकाकी, सर्वथा सुख वर्जितं ।।४९ ॥ ततस्त्वं भरते गत्वा, शंखचक्रगदाधरं । पोतांबरं सुपर्णा कं, मां विमाने प्रदर्शय ॥५०॥ आत्मानं नीलवस्त्रं च, तालांकं लांगलायुधं । मर्त्यलोके मनुष्याणां प्र दर्शय समंततः ॥ ५१ ॥ विमानसंस्थितौ राम - गोविंदौ व्योमचारिणौ । क्रीडां प्रकुरुतः स्वैरं, पूरयंतौ जनेप्सितं । ५२ । प्रतीतिर्भरत क्षेत्र - वासिनां प्राणिनामिति । यथा भवति वार्तापि, न मे नरकगामिनी ॥५३॥