________________
૨૫૮
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
वैराग्येण शरीरादि-सुखे जानन्ननित्यतां । बभूव प्रतिमाधारो, मार्गयित्वा गुरोर्वचः ।९६। पारणाय यदा याति, नगरे स मुनिस्तदा । स्थानात्स्थानाद्वशावृदं, निर्गच्छेद्रूपमोक्षितुं ॥ सान्वतो नगरेऽन्ये यु-सक्षपणपारणे । समायातो नरस्त्रीणां, मंडलान्यमिलंस्तदा ॥९८॥ बालकेन युता काचि-त्कामिनो कूपतो जलं । समानेतुं समायाता, यावत्कृपतटे मुदा ।९९। तावदाहारमादातुं, बलभद्रमुनिगिरेः । पारणस्याभिलाषेण, पुरीमध्यं समागतः ।।३००॥ तद्रूपदर्शनौत्सुक्यं, दधाना जलकर्षिणी । घटस्थाने सुतस्यैव, कंठे च रज्जूमक्षिपत् ॥१॥ रूपदर्शनलुब्धाया-स्तस्याः स्वरूपमात्मना । विलोक्य बलभद्राख्यो, मुनिरेवं चितयत् ।२। धिगस्तु मम रूपं च, यस्य प्रदर्शनोत्सुका । अप्रेक्षणीयमीदृक्षं, करोति कर्म कामिनी ॥३॥ मद्रूपमोहिता स्त्री चे-द्विधत्ते कार्यमीहशं। कदाप्याहारमादातुं, नागंतव्यं पुरे मया ॥४॥ इत्यभिग्रहधारी स, भूत्वा कानन एव च । तिष्ठन्नाहारमादत्ते, न चाप्तौ कुरुते तपः ॥५॥ षष्टिमासक्षपणानि, पक्षकक्षपणानि च । चतुर्मासीश्चतस्रश्च, मुनिरेवं तपो व्यधात् ॥६॥ तुंगिकासानुमच्छृगे, क्रियमाणे तपस्यलं । संस्थिता काननेऽभूवन, श्वापदा वशवत्तिनः ॥७॥ तिष्ठतस्तस्य तत्रैव, मिलिता महती सभा। पंचाननमगव्याघ्र-शशादिजंतूपरिता ॥८॥ राममाहात्म्यतोऽन्योन्यं, मुक्तद्वेषेषु तेष्वलं । समेतेषु मुनिर्दत्ते, देशनां दुःखनाशिनी ॥९॥ तां श्रुत्वा श्रावकाः केऽपि, सम्यक्त्वधारिणोऽभवन् । केऽप्यमी चक्रिरे देश-विरति रतिदायिनी। केऽपि कंदफलाहारं, केऽपि मांसस्य भक्षणं । केऽपि कादंबरीपानं, प्रत्याख्याति तदंतिके ॥ तिर्यग्भवविनाशाय कायोत्सर्ग वितेनिरे । केपि चानशनं प्रांते, विदधुः स्वयियासया ।१२। केचिन्मनुष्यतो भीति-मजानंतो मगादयः । बिभ्रतो भद्रकत्वं च, संजाताः सेवका इव ।१३। जातिस्मरणतः कश्चि-त्संवेगी शिष्यवन्मुनेः । पूर्वजन्माभिसंबंधी, संजातो हरिणाग्रणीः ।१४। स पारणदिने साधो- रुत्तोणं सार्थमिक्ष्यते । तं दृष्ट्वा ज्ञापयेत्पुच्छ-शिरोनेत्रादिसंजया ।१५। वाचंयमोऽपि तां जानन्, ध्यानं मुक्त्वोपरोधतः भिक्षायै कानने गच्छे-त्तेनैव मार्गदर्शिना । एवं तपस्विनस्तस्य, यदागच्छति पारणा । स एव हरिणः पूर्व, समीक्ष्य ज्ञापयेत्तदा ॥१७॥ अन्यदा पारणे साधो-स्नेन सार्थः समीक्षितः । न तथापि स कुत्रापि, लेभे भक्तिभृता यतौ॥ भूयोऽपि भ्रमता तेन, तत्रैव काननेऽभितः । वृक्षादिच्छेदनायेतो, रथकारो निरीक्षितः ।१९। निष्पन्नं भोजनं तस्य, समालोक्य मगः सुधीः । ज्ञापयेद् वतिनः सोऽपि, तेनैव सह जरिमवान् कदाचिच्चेत्समागच्छेत्, कश्चिदभ्यागतोऽधुना । तदाहं भाग्ययोगेन, दत्वा करोमि भोजनं ॥ एवं व्यचितयद्याव-द्रथकृद्दानबुद्धितः। तावत्तत्रागतो राम-मुनिभिक्षाजिघृक्षया॥२२॥ जंगमं स्वर्गिणां वृक्ष-मिवागच्छंतमद्भुतं । निरीक्ष्य रथकारोऽपि, व्यमृशद्विस्मयाकुलः ।२३। अहो न रूपमीहक्षं, स्वर्गलोके सुपर्वणां । मर्त्यलोके मनुष्याणा-मपरस्यापि कस्यचित् ।२४।