________________
२४४
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
મોજ મજા કરે. ઉદ્યાન આદિમાં યથેષ્ઠ ક્રીડા કરીએ.' આ પ્રમાણે અજ્ઞાનદશાથી વિચારતા દ્વારિકાવાસીઓ મદિરાપાન આદિ સાતે વ્યસનમાં લીન બની ગયા. ત્યારે પાપાત્મા દ્વૈપાયનદેવે અવસર પામીને, દ્વારિકામાં પહેલા અનેક પ્રકારના દુસહ ઉત્પાતો કર્યા.
उल्कापातस्त्रियामायां, म्लाना नक्षत्रराशयः । विद्युत्पात इवांगार-वृष्टिस्तेभ्योऽप्यजायत ।। हग्भ्रांत्यक्षतं तत्रत्याः, क्षीणंतेजोऽर्कचंडयोः। स्वयमेवापतन् शृंगा-ज्यात्मप्रासादगानि च ॥ भयंकरोट्टहासोऽपि, काष्ठाचतुष्टयोत्थितः । अश्रूयत जनै रात्रौ, निद्राभंगविधायकः ॥२८॥ फेत्कारधकशब्दाना, श्रवणं पूर्वमश्रुतं । दिग्दाहो भूमिकंपश्च, मानसोद्वेगकारकंणः ॥२९॥ पाषाणोल्लिखितानां च, पुत्रकाणां प्रदर्शनं । वेतालशाकिनीभूता-दिभिर्युक्तोऽसुरोऽभ्रमत् ।। उत्पेदिरे यथा पुण्या-च्छीरचक्रादिकानि च । रत्नानि हालनो विष्णो-र्नेशुस्तान्यघतथा ॥ विचकाराथ वातं स, संवर्तः स्पर्शतः खरं । एकत्र सर्वतस्तेन, तृणकाष्टान्यमेलयन् ॥३२।। पुरोबाह्येऽपि येऽभूवं-स्तृणकाष्टमहीरुहः । तानप्यानीय तत्रैव, प्रचिक्षेपासुरोऽधमः ।३३। यादवानां ततःषष्टि-कुलकोटीबहिः स्थिता। मध्ये द्वासप्तति पिंडो-कृत्य सोऽग्निमदीपयत ॥ यत्र तत्र गतं मयं, यथा यमो न मुंचति । पावकोऽपि प्रणश्यंत-मपि पौरं तथाग्रहोत् ।३५। धगधगिति शब्देन, त्रटत्कारेण भीषणः । ज्वालाभिरुद्यतो वह्नि-रिव ज्वालयितुं जगत् ॥ कल्पांतकालसंकाशा, ज्वाला मुंचन धनंजयः। कोऽपि मा नश्यतादेव, धूमध्वांतमिव व्यधात् । देवकीवसुदेवाख्यौ, रोहिण्यपि निजांगजौ । ज्वलज्ज्वलनतापेन, निपीडिता अवीवदन् ।३७। द्वाभ्यामेव युवाभ्यां चा-क्षौहिप्यो बहवो जिताः । सांप्रतं गोप्यते सौवं, बलं कथं बलाच्युतौ। दुःखमस्माकमैक्षेथां, युवां पूर्व मनागपि। कथनेन विनै वैत-धुवाभ्यां तु निराकृतं ।३९। संप्रत्यसहमानोऽस्मां-स्तापो निपीडयत्ययं । तथापि न युवां सारां, कुरुतः क्क गलो सुतौ । पित्रोरिति वचः श्रुत्वा, दुःश्रव्यं दुःखभितं । समारोपयतां राम-माधवौ तौ निजं रथं ॥ ताववाहयतां याव-त्तावत्तस्यैव वाजिनः । यंत्रिता असुरेणाशु, मंत्रेण मनुजा इव ॥४२॥ द्वाभ्यामपि सगर्वाभ्यां, स्वयमुत्पाटितो रथः । तदा तस्य युगं भग्रं, धनुभंग इवाहवे ।४३। पित्रो रक्षार्थमात्मोय-बलेनैवाथ सोद्यमौ । आनयामासतू राम-माधवौ तं प्रतोलिकां ॥४४॥ हा रक्ष बलदेव त्वं, हा रक्ष त्वं जनार्दन । दहामा वयमित्यासी-द्रुदनं परितो नृणां ॥४५॥ कपाटौ तस्य रामेणा, भक्त्वा दक्षिणपाणिना । भुजाभ्यां वेष्टितः पुर्याः, स्यंदनः कषितो बहिः । तदा साक्षत्प्रकारेण, दुष्टोऽसुरो जजल्प सः । बलकृष्णावयं मोहः, क्रियते किं बिडंबकः ॥ पूर्वमेव मया प्रोक्त, समस्ति युवयोः पुरः । अस्या पुर्या विमोक्ष्यामि, युवां विना न कंचन ॥ एतदर्थमेव मया, विक्रीतं सकलं तपः ! निष्फलं तन्निदानं किं, भविष्यति भवबलात् ॥ इत्युक्त तेन पापेन, पितरौ प्रजजल्पतुः । युवाभ्यां तद् भवद्भ्यां तु, जीवंतु यदुवंशजाः ।५०।