________________
सग-१४
૨૩૧
બનેલા શાબે બધા કુમારોને કહ્યું: “અરે, મારો, મારો આ દુષ્ટ પાપીને ખતમ કરી નાખો. એને મારી નાખ્યા પછી, આ રાંકડે દ્વારિકાને અને આપણું યાદવકુળનો કેવી રીતે ક્ષય કરવાને હતે? માટે એને પૂરે જ કરે.” આ પ્રમાણે શાંબકુમારના આદેશથી કુમારોએ મુક્કા મારીને, ચપેટા મારીને, પત્થરો મારીને, તેમજ પગની લાત મારી-મારીને દ્વૈપાયનને અધમૂઓ કરી નાખ્યા. બેહોશ થઈને દ્વૈપાયન મૃતકની જેમ જમીન ઉપર ઢળી પડયો. મદાંધ બનેલા શાંબ આદિ કુમારે તેને ત્યાં પડતું મૂકીને, સૌ દ્વારિકામાં આવી પોત પોતાના સ્થાને ગયા.
वृत्तांतं तं चरैत्विा , व्यषीदन्मधुसूदनः । अथायं कुपितो हा हा, यदुक्षयं करिष्यति ॥३४॥ चितयित्वेति गोविदः, सान्वतेन समं ययौ । उपद्वैपायनं बिभ्यद्, द्वारिकाक्षयहेतुतः ॥३५॥ खंडीकृतं खलमिव, रक्ताक्षं क्रोधदुर्धरं । समीक्ष्य तमुभौ बंधू, मृदुवाक्यैर्जजल्पतुः ॥३६॥ अहो तापसमुख्यत्व-महो क्रियापरायणः । तव कोधविधानं न, योग्यतामेति सर्वथा ॥३७॥ क्रोधेन दुर्गतिप्राप्तिः, क्रोधेन वैरवर्धनं । क्रोधेन क्षीणसंसार-वतामपि भवापदः ॥३८॥ मदांधैः पुनरज्ञान-बलकैर्मम यद्यपि । भृशं संतापितो मंतुं. क्षमस्व त्वं तथापि तं ॥३९।। बालकैः कृतमन्यायं, क्षमते त्रिदशा अपि । तव तापसदीक्षस्य, क्षमैवाक्षीणभूषणं ॥४०॥ वचनैः कोमलैरेवं, प्रशामितोऽपि तापसः । न प्राशाम्यमतक्षेपै-धूंमध्वज इवेधितः ॥४१॥ क्रुद्धोऽभ्यधात् त्रिदंडी स, मावादीः कृष्ण भूरिशः । यदहं तावकैः पुत्र-निष्कारुण्यनिपीडितः ॥ कृतस्य तपसो मे स्यात्, फलं यदि मनागपि। द्वारिकायाः सलोकाया, भूयासं ज्वालकस्तदा ॥ तदैव मयकाकारि, निदानमिति दुस्सहं । ततस्तव वचो मोघं, भविष्यति पुरो मम ॥४४॥ वारंवारं मुकुंद ! त्वं, विज्ञापयसि मां यदि । युवां द्वौ बांधवौ तहि, मोक्ष्यामि द्वारिकापुरि ॥ तदा न्यवारयद्रामो, वासुदेवं सहोदरं। तापसेनामुना नैव, प्रजल्पनमथोचितं ॥४६॥ वामनः कणपः पंगु-हीनांगो बधिरस्तथा। प्रशामितोऽपि सद्वाक्य-रुपशांति प्रयांति न ॥४७॥ त्रिदंडिनि वराकेऽस्मिन्, कथनेः किं प्रयोजनं । श्रोनेमिभाषितं सर्वं, कदापि न वृथा भवेत् ॥ ततः शोकेन संयुक्तो, बहुदुःखं धरन् हृदि । द्वारिकानगरी प्राप्तः, सरामो मधुसूदनः ॥४९॥ निदानं प्रकटीभूतं, कृतं तेन त्रिदंडिना । द्वितीयस्मिन् दिने पुर्या, मुकुंदोऽप्युदघोषयत् ॥५०॥ द्वारिकानगरीदाह-कृते द्वैपायनर्षिणा । निदानं कृतमस्त्यस्मात्, धर्मे भूयास्त सादराः॥५१॥
ऊद्घोषणां केशवकारितां ता-मेवं समाकर्ण्य पुरीमनुष्याः । विशेषतो धर्मरता बभूवु-धर्मेण विघ्ना विलयं प्रयांति ॥५२॥
इति पंडितचकचक्रवर्तिपंडितश्रीराजसागरगणिशिष्य पंडितश्रीरविसागरगणिविरचिते श्रीसांबप्रद्युम्नचरित्रे गजसुकुमालदीक्षाग्रहणमुक्तिगमनकृष्णप्रश्नवर्णनो
नाम चतुर्दशः सर्गः समाप्तः श्रीरस्तु ॥