________________
સર્ગ–૧૩
૧૮૭
तदौषधविधानाय युधिष्ठिरोऽपि भूपतिः । शल्यस्यापि चकर्ताशु, कोदंडकलितान शरान् । अपरं कामुक क्रोधा-दादाय शल्यपार्थिवः । वेगादाच्छादयामास, धर्मपुत्रं शिलीमुखैः ॥१५॥ विद्युज्झात्कारसंकाश-मितः पार्थः शिलीमुखं । शल्यं प्रति मुमोचाशु. तेन सोऽपि गतो मृति ॥ जीवरक्षाकृतेऽनश्यन्, भूपालाः पार्श्ववर्तिनः । सेव्यसेवकता ताव-द्यावज्जीवस्य रक्षणं ।१७। आरोपितगदः स्कंधे, भीमो दुर्योधनेशितुः । बंधु दुरोदरव्याज-जयं संस्मारयन्नहन् ॥१८॥ मायायुद्धविधानेन. गांधारेण नियोधितः । मुमोच सहदेवाख्यो, मार्गण जीवनाशनं ॥१९॥ प्राप्तमेव शरं पृष्टात् स्पंदने शकुनेरपि । दुर्योधनऽच्छेत्सी-च लेन तीक्ष्णपत्रिणा ॥२०॥ माद्रीसुतस्तदाबस्यौ रे दुर्योधनपापधीः । संग्रामेऽपि तवाऽप्येनं एव प्रवर्तते बलं ॥२१॥ भव्यं जातं युवां प्राप्तौ भूयःकपटकंटकौ । युगपद् घातयिष्यामि वियोगं कर्तुमक्षमः ॥२२॥ उक्त्वेति सहदेवेन, देवेनेव बलोयसा । बाणा मुमुचिरे तैस्तु, दुर्योधनस्तिरोदधे ॥२३॥ तेनापि तीक्ष्णबाणानां, प्रक्षेपेण धनुश्छिदा । विद्रादिलोऽपि माद्रेयो. न मनागप्युप द्रुतः ॥२४॥ पुनः सोऽप्यमुचद बाणं, मंत्रमंत्रितचितं । प्राणिनां प्राणनाशाय, धर्मराजशरोपमं ॥२५॥ अंतरालादपि छित्वा, तीक्ष्णेन गरुडेषुणा । दूरोचके तन्माहात्म्यं, धनंजयेन धन्विना ॥३१॥ दुर्योधनमहीशस्य, पक्षपातविधित्सया । शकुनिर्धनुरारोप्य, ववर्ष शरमंडलीः ॥३२॥ शकुनेरपि च छित्वा, मार्गणान्सहदेवकः । सूतं शकुनिवद्रथ्या-नुड्डाप्य तच्छिरोऽच्छिदत् ॥ दिवाकरकरैस्तीक्ष्णै-रिवातिनिशितायुधैः । निशाबल उलूकोऽपि, नकुलेनोपदुद्रुवे ॥३४॥ उलूकोऽपि दिवा पश्यन्, नष्टवा दुर्मर्षणेशितुः । स्यंदने गतवांश्चित्र, विद्रुता अपरेऽपि षट् ॥ नंष्ट्वा दुर्योधनं भूपं, तं ते षडपि शिश्रियुः । मिलित्वा तैर्महीशैश्च, पार्थेन सोऽप्ययुद्धयत॥ बलदेवसूतैःप्राच्यैर्युक्तश्चक्रीव फाल्गुनः । वाहिनीं भंजयामास, कुरुदेशेशितुः शरैः ॥३७॥ द योधनावनीभर्तु-गजानंधान प्रकुर्वता । धनंजयेन वाणेन, व्यापादितो जयद्रथः ।।३८।। वलादाकर्णमाकृष्ट-कोदडः कर्णराट तदा । दधावे वेगतः पार्थ-जिघांसया दयोज्झितः ।। शरीरकंद केनोच्च-विशालखङ्गयष्टिना । रममाणावपश्यंस्तौ, कर्णपाथी सुरा अपि ।।४।। भक्त्वानेकरथान वीरान, शस्त्रमात्रसमन्वितः । कर्णो विलोडयामास, यादवानां च वाहिनीं ॥ सिंहनादेन भीमश्च, शंखनादेन फाल्गुनः । चक्रतुः शत्रुसेनायां, क्षोभनां महों तदा ॥४२॥ दुर्योधननृपोऽधाव-दादाय हस्तिनां घटां। वधाय भीमसेनस्य, समुद्यतः क्रुधाकुलः ॥४३॥ रथ्यान् रथ्यैर्हयैरश्वान्, मतंगजैर्मतंगजान् । भीमो दुर्योधनं सैन्य-मिति सर्वमयोधयत् ॥४४॥ युद्धयमानोऽपि तैः सार्ध-मेव भीमः पराक्रमात् । न संग्रामरसं पूर्णी-चकार द्यूतकेलिवत् ॥ तदा दुर्योधनो मानो, स्वयमाश्वास्य सैनिकान्। चचाल गंधहस्तीव, भेत्तुं भीमबलद्विपान् ॥ तौ पारावारकल्लोला-विव ह्यास्फालनं मिथः । जनयंतौ जयं भीम-स्तं निहत्योपलब्धवान् ।।