________________
१८६
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
છે. આ રીતે એકી સાથે રૂકિંમરાજાના વીશ બાણને છેદી નાખ્યાં. તેથી પરામરહિત થયેલા મિરાજાએ “કૌધરી ” નામનું શસ્ત્ર મૂક્યું તેને મહાનેમિએ “આગ્નેય” નામના શસ્ત્રથી ભસ્મીભૂત કરી નાખ્યું. ત્યાર પછી રૂકિમએ લાખો બાણને વરસાવતું “વૈરચન” નામનું બાણ મૂક્યું. તેને મહાનેમિએ “શૈવેય” નામના બાણથી છેદી નાખ્યું. છેલ્લે મહાનેમિના નાશ માટે રૂકિએ મહેંદ્ર નામનું બાણ મૂકયું, ત્યારે પરાક્રમી એવા મહાનેમિએ “આન૫” નામની શક્તિથી રૂકમરાજા ઉપર પ્રહાર કર્યો, શક્તિના પ્રહારથી ઘાયલ થયેલા ભૂમિ પર પડીને કણસતા રૂઝિમરાજાને બાંધીને મહાનેમિ કૃષ્ણની શિબિરમાં લઈ ગયે. આ પ્રમાણે મહાનેમિથી આઠે રાજાઓ ક્ષોભ પામી ગયા. જરાસંધનું મોટું સૈન્ય હોવા છતાં રાજાઓના મનમાં વિજય માટે શકા ઉત્પન્ન થઈ.
समुद्रविजयस्वामी, वरिसेनापति क्षणात् । भद्रकं स्तिमितश्चापि, मालवेशं भयावहं ।९३। वसुसेनं च वसुसेन-मक्षोभ्योऽक्षोभ्यधैर्यभाक् । पुरोमित्रेश्वरं मित्रे-श्वरं च सागराभिधः ।९४। धृष्टं प्रतिज्ञया धृष्टं, लक्ष्मीवान् लक्ष्मिलक्षितः । अथिनां द्युम्नदातारं, द्युम्नाख्य हिमवान् पुनः॥ धरणेंद्र इवोजस्वो, धरणांबराष्टकं । अजैषीच्छतधन्वान-मभिचंद्रो महेंद्रवत् ॥९६॥ कल्याणापूरणो लोको, पूरणो द्रौपदं नपं । सत्यनेमिर्महापद्म, सुनेमिः कुंभिभोजकं ॥९७॥ श्रीदेवं दृढनेमिश्च, विभिन्ना यादवैरिति । नपा हि रणतोऽन्येऽपि, भग्नाः शरणमाश्रिताः ।९८। इतो भीमो रणे भीमो-ऽर्जुनोऽर्जुनोपमप्रभः । रामो रामसुताः श्वेत-वदना रदनांशुभिः ॥९९॥ धृतराष्ट्रसुतानां ते, सैन्यं व्यद्रावयन् द्रुतं । विद्रुतास्तेऽपि संजाता, वातकंपितपत्रवत् ॥२००॥ बाणैः खगैरिवाकाश-माच्छादितं समंततः । बभूव दुर्दिनं मेघ -बिंदूनां पतनैरिव ॥१॥ पार्थ आकृष्य गांडीवं, यदा मुंचति मार्गणात् । .रस्थाने करोऽन्येषां, धन स्थाने धनुस्तदा ॥ अथ दुर्योधनो योधः, कृत्वा हुकारमुत्थितः । जितकासिनमात्मानं, जानन स्वीयबलोद्धतः ॥ युद्ध रिपुक बंधौघे- तगतस्त्रिगर्तकः । चित्रसेनश्चित्रसेनो, रामराजो जयद्रथः ॥४॥ सौवीरनृपतिः शर-सेनेशो जयसेनकः । सोमकः सोमवक्त्रश्च, भूपाला मिलिता इति ॥५॥ संभूय तेऽप्ययुद्धयत, पार्थेन शरवर्षिणा । शकुनिः सहदेवेन, भीमे दुःशासनोऽपि च ॥६॥ नकुलेन सहोलको, युधिष्ठिरेण शल्यकः । द्रुपदेशेन सत्यांको, राहुलो भौपलेन च ।७।। भूपाला अपरे शेषा, विद्वेषान्वितचेतसः । चक्रिरे समरं घोर, संकर्षणसुतैः समं ॥८॥ दुर्योधननृपादीनां, वर्षतां बाणधोरणीः । द्रुतं संधितबाणैस्ता, उच्चिच्छेद धनंजयः ॥९॥ अहन् दुर्योधनेशस्य, सारथिं रथिकानपि । पार्थोऽभांक्षीद्रथान् बाणैः सन्नाहमप्यपातयत् ॥ तदा क्रोधोद्धताः सर्वे, भूपालाः पूर्ववणिताः । युगपत्समापतन् पार्थे, वर्षति बाणधोरणीं ।। दशानामपि शत्रूणां, भूपानां शरवर्षणः । धनंजय इवाकार्षा-दुपद्रवं धनंजयः ॥१२॥ युधिष्ठिरमहेशस्य, स्पंदने संस्थितं ध्वजं । शल्यः शल्यमिवादूरं, पातयामास मार्गणः ॥१३॥