________________
૧૬૨
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
परस्परमिति भ्रात्रो-विचारप्रविधायिनोः । विमला रजनी जाता, जैवातकोपशोभिता ।२०। प्रद्यम्नो विद्यया ताव-दगत्वा रुक्मिसुतालये। सुप्तां जागरयामास, प्रीत्या तामनुरागिणीं ॥ आकर्ण्य सहसा वाक्य-मुत्थिता सा चमत्कृता। सोचे कोऽसि तदा लेखं, रुक्मिण्याः स च दत्तवान् तस्यां च वाचयत्यां तं, प्रद्युम्नस्याभिधागता । यस्यात्र लिखितं नाम, स एवाहं शुभानने ! ॥ साऽवक वदामि कि चाहं, सोऽवक्द्राक्परिणीयतां । इत्युक्ते साक्षिणि सारनौ, द्रागुररीचकार तं॥ रंत्वा ततस्तया साकं, निशाशेषे जगाद सः । यामि सांबसमीपेऽहं, माभैषीस्त्वं कुतश्चन ।२५। मया कृतास्ति ते देहे, रक्षा रक्षःसहस्रजित् । मावादीस्त्वं पितृभ्यां च, पृच्छयमानापि सर्वथा ॥ इत्युक्त्वा स ततः स्थाना-द्गतः स्वीकृत्य सापि तत् । श्रांता भोगेन सुष्वाप, प्रातरप्युत्थिता न च तावत्तत्र समायाला, धात्री तत्परिचारिका। कंकणा_विवाहस्य, चिह्नानि वीक्ष्य विस्मिता ॥ जल्पितापि न साऽजल्प-त्ततो गता भयद्रुता । सा रुक्मिराजमातृभ्यां, तया लक्षणमब्रवीत् ।। श्रुत्वेति पितरौ तत्र, समागतौ विलोक्य च । अपृच्छतां च तौ प्रीत्या, न तु सोत्तरमार्पयत् ॥ रुक्मी च चिन्तयामासाऽ-हो मत्कुलकलंकिनी। एषा मया न दत्तापि, रेमे केनापि पापिनी ॥ ममैव मूढता जाता, पूर्व चांडालपुत्रयोः । यदेषा न मया दत्ता, रक्षिता दुःखहेतवे ॥३२॥ अद्यापि न गतं किचि-द्यावद्वार्ता न केनचित् । ज्ञातास्ति तावदेताभ्यां, चांडालाभ्यां ददामि तां इति चितयता तेन, तो समाहूय वेत्रिणा। ददाम्येनां स्क्वाचाये, प्रदत्तोक्त्वेति सा तयोः।३४॥ तां दत्वा प्राह तौ रुक्मि-भूपालप्रौढकोपतः । लात्वतां तत्र गंतव्यं, यत्र पश्यामि नो युवां ॥ प्रमाणमिति चोक्त्वा तौ, निर्गतौ नगराबहिः । वैदर्भी तावथाख्यातां, राजानं भज कंचन ॥ चांडालस्य कुले प्राय-श्चर्मरज्ज्वादिविक्रयः । तत्कुले राजकन्याया, न ते रतिर्भविष्यति ॥ सा प्राह कर्मणा योऽभूत्, स एवास्तु पतिर्मम । भवंतावपि जानीतो, दुर्लध्या कर्मपद्धतिः ॥ वदंत्या इति चित्तस्थ-दाढर्य तस्या विलोक्य तौ। प्रासादरचनां कृत्वा, पालाविव तस्थतुः ।। समादायाथ वैदर्भी : ततस्तयोः प्रयातयोः । पश्चात्तापं चकाराशु, दृढचित्तोऽपि रुक्मिराट् ॥ पापिष्टेन मया हाहा, कृतं कर्माविचारितं । सा दातव्योचितस्थाने, हीनकुले समर्पिता ॥४१॥ रुक्मिण्या प्रार्थ्यमानापि, तत्तनूजाय नापिता । मनावकालविलंबोऽपि, मयाऽधमेन नो कृतः॥ अथवा दूषणं मे ना-नुतापप्रविधायिनः । चांडालादपि चांडालः, कोपस्तस्यैव दूषणं ॥४३।। अथाहं कुत्र गच्छामि, लप्स्ये ख्याति जने कथं? । विलपन्निति शुश्राव, रुक्मी वादित्रनिःस्वनं ॥ तं श्रुत्वा मंत्रिणः प्रोचे, कुतोऽयमागतो ध्वनिः। चरैतिसमाचारा-स्ते प्राहुमुदिता इति ॥ चांडालाविति कृत्वेश, त्वया समर्पिता ययोः। अभूतां सांबप्रद्युम्नौ, तौ नारायणनंदनौ ॥४६॥ तदा व्यचितयद्रूक्मी, पुत्र्या भाग्यमहो महत् । विरुद्धऽपि शुभं जातं, यस्याः सौभाग्यभावतः ॥ एकं तु तनयो जाम्या, जामातान्यच्च कीर्तिमान् । तुष्यन्निति गतस्तत्र, दिव्यं नृत्यमिवेक्षितुं ॥