________________
सर्ग-१२
૧૬૧
अन्यदा प्रेषितो दूतो, रुक्मिण्या बांधवांतिके । याचिता तत्पुत्री च, प्रद्युम्नस्य कृते तया ।९२। गत्वा तत्र नमस्कृत्य, रुक्मिणं धरणीधवं । रुक्मिण्या कथितस्तेन, समाचारो निरूपितः ।९३। स तं श्रुत्वा प्रकोपेन, प्रजजल्पाविचारितं । यत्पुरा समभूतकृत्यं, मम संजातमेव तत् ॥९४॥ अथ चांडालपुत्राय, मया पुत्री प्रदीयते । न पुनः पापचित्तस्य, नारायणस्य सूनवे ॥९५॥ वैदर्भीप्रार्थनां कृत्वा, गत्वा भोजकटे नरः । रुक्मिणी कथयामासो-दन्तं रुक्मिनिवेदितं।९६। रुक्मिण्यापि च वृत्तांतः, कथितोऽयं हि दुःखतः । प्रद्युम्नस्याग्रतो दूत-प्रोक्तो रुक्मिनिवेदितः ।। बांधवस्यापमानेन सा विलक्षाननाऽभवत् प्रद्युम्नो वीक्ष्य तां प्राह, मातर्दुःखं तवाऽस्ति किम् ।। तयाऽपि भ्रातृवृत्तान्तः, प्रोक्तः सर्वोऽपि तत्पुरः, तमाक्र्ष्याऽवदत्सोऽपि चिन्तां जननि ! मा कृथाः मारणायोचितो नासौ, मामुलत्वेन सर्वथा । अस्यौचित्यं विधायैव, करिष्ये करपीडनं ।२००। उक्त्वेति सोऽथ सांबेन, साकं भोजकटं ययौ। तत्र ताभ्यां कृतं रूपं, चांडालयोः सुगायिनोः ।। तयोर्गानकलोद्भूता, वार्ता भूपेन संश्रुता । तावप्याकार्य तद्गानं, श्रुतं कर्णप्रमोदकं ॥२॥ तौ प्रपच्छ महीपालो, दापयित्वा घनं धनं । कुतो युवां समायाता-वीडग्कलाविलासिनौ ॥ तावुचतुर्महीभर्त-रावां द्वारवतीपुरि। समेतौ स्वर्गलोकाच्च, कुतूहलानि वीक्षितुं ॥४॥ मुकुंदस्य निवासाय, वासिता धनदेन सा । करोति तत्र सानाज्यं, नारायणो नरेश्वरः।५। तातोत्संगस्थिता कन्या, तदा वैदर्यभाषत । प्रद्युम्नं नंदनं विष्णो-विजानीथो युवां नरौ ॥ विकस्वरेण वक्त्रेण, तदा सांबोऽब्रवीत्तमां । औदार्यवर्यचातुर्य, प्रद्युम्नं न हि वेत्ति कः ॥७॥ समाकर्ण्य वचस्तस्य, वैदर्भो रागविह्वला । बभूव तस्य भर्तृत्व-करणकमनोरथा ॥८॥ जगदुः सेवकास्ताव--न्नाथ हस्ती मदोत्कटः । बहिस्तात्स्तंभमुन्मूल्य, विनिर्गतोंकुशोऽवशः ॥ निशम्यैतद्वचो भूपः, पटहं पर्यघोषयत् । स्वायत्तं यः करोत्येनं, ददामि तस्य वांच्छितं ॥१०॥ समाकयेत्यधावंत, प्रचुरा नागरा नराः । न केनापि वशीकतु, समर्थः सोऽभवद्गजः ।११। ततश्चांडालवेषाभ्यां, ताभ्यामेत्य तदंतिके । गीतगानं समारेभे, वशीबभूव तेन सः ॥१२॥ सर्वत्र नगरे ख्याति-स्तदा तयोरजायत । प्रजजल्प महीशोऽप्य-भीष्टं मार्गयथो युवां ॥१३॥ तौ प्राहतुर्न कोऽप्यस्ति, वांच्छितार्थप्रदायकः । भूपतिः प्राह दास्येऽहं, मावादिष्टामिदं युवा ॥ हास्येन प्राहतुस्तौ त्वं, यदि दास्यति कामितं । तदावयोन काप्यस्ति, रंधनप्रविधायिनी ।१५। पुत्री तदर्थमात्मीयां, प्रसादेन समर्पय । विज्ञास्यते तदावाभ्यां, दाता त्वत्तः परोऽस्ति न ॥१६॥ श्रुत्वैतच्च क्रुधा रुक्मी, तौ निर्वासितवान् पुरः । प्रद्युम्नेन तदा प्रोचे, सांबस्य सोदरस्य तु ॥ आवाभ्यां यदि संग्रामः, क्रियतेऽनेन सांप्रतं । जननी रुक्मिणी गेहे, संस्थिता दुःखमाप्स्यति ॥ ततो यथा तथा तस्य, सुतायाः पाणिपीडनं । स्ववाचः पालनार्थं च, कृत्वा मया तु गम्यते ॥ ૨૧