________________
૧૩૮
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
મિલનના આનંદને કહેવા માટે કે બોલવા માટે કેઈ શબ્દ નથી. અર્થાત બંનેને અવર્ણનીય मान थ्यो.
चिरं तनयमालिंग्य, स्थितो यावज्जनार्दनः । नारदर्षि गौ ताव-द्भूयः श्रेयोऽभिलाषुकः ।६। यथा भोः क्रियते दुष्टं, काननं स्थितिनिमितेः । कथं न नगरीमध्ये, गम्यते सांप्रतं द्रुतं ।७। युष्मदागमनं पौर-लोकोऽपि भृशमीहते । नगर्यां गमनेनैव, युवयोवर्तते शुभं ॥८॥ कृष्णो विमुच्य निःश्वासान, जगौ गद्गदवाचया । विना बांधवसैन्यान्यां, प्रवेशः कियते कथं । प्रथमं मम पुत्रस्य, दुःखं शल्यमिवाभवत् । मिलि श्वेत्स भाग्येन, तदाभूतहि भूरिशः ॥१०॥ बंधु विना दिशः शून्या, अहं स्वसैन्यमंतरा । पत्नीविना गृहं शून्यं, कथं प्रविश्यते पुरे ॥११॥ द्वावप्येकाकिनावावां, कः स्वामी कश्च सेवकः । को मस्तकोपरिच्छत्र-धर्ता चामरवीजकः । वदंतं दीनतायुक्तां, वाचमिति नरायणं । प्रमोदान्नारदोऽवादीत् खेदं त्वं मा कृथा हरे ।१३। जीवन्नस्ति तव भ्राता, समस्तमपि ते बलं । कांतापि सुखसंयुक्ता, भव्यो भाग्योदयोऽपि च । यस्य प्रद्युम्नसंकाश-स्तनयो विद्यते बली । न कापि न्यूनता तस्य, लोकनिंदाविधायिनी ।१५। न हतोऽत्र विपक्षोऽपि, येन द्रोहविधायकः । स कथं निजतातस्य, बंधुसैन्यविघातकः ।१६। तव विद्याचमत्कारः पुत्रेणायं प्रदर्शितः । न कोऽपि मारितो हस्ती, हयः पत्तिश्च विद्यते ।१७। संतोष्य वाग्विलासेन, गोविंदमिति नारदः । प्रद्युम्नमवदद्वत्सा-द्यापि क्रीडां करोपि किं ।१८। महतोऽत्र मनुष्यस्य, चिरं हास्यं न युज्यते । विशेषाज्जगतां पूज्ये, ताते घातेन वजिते ।१९। संहृत्येमा ततश्चेष्टां, विश्वां विद्यासमुत्थितां । पृथिव्यां पतितानेता-नुत्थापयाखिलानपि । उत्थाप्य सकलान् वीरान, मूच्छितांस्त्वं च विद्यया । संतोषय स्वतातस्य, हृदयं दुःखपूरितं । इति नारदवाक्येनो-स्थापितास्तेऽखिला अपि। कुलीनः कृपया युक्तो, मुनिवाक्यं करोति हि। येन ध्यानेन शय्येत, निद्रालुभिः शरीरिभिः । उच्चरंतस्तदेवास्या-दुत्तिष्ठति सविभ्रमाः । शत्रु गृह णंतु गृह णंतु, द्रुतमेवेति चाननात् । उच्चरंतो रणध्याना-दुत्थिताः सान्वतादयः ॥२४॥ आत्मनोऽपि स्वपुत्रस्य, जानन विद्याबलं बहु । माधवः प्राह तान् भो भो, यूयं तिष्ठत तिष्ठत। युष्माकं बलमन्यूनं, ज्ञातं मया बलीयसां । ममैकापि च पुत्रेण, यूयं सर्वेऽपि निजिताः ॥२६॥ सर्वविद्यानिधानेना-नेन युष्मान् विजित्य च । प्रदर्शिता कलाक्रीडा, व्रीडाकर्यभवत्खलु ।२७। मिलनार्थ समेतोऽस्ति, वैताढ्यपर्वतादयं । विद्यां दर्शयितुं सर्व-मेतदेतेन निर्मितं ॥२८॥ इति कृष्णोक्तमाकर्ण्य, लज्जिताः पांडवादयः । गजाश्वरथमारूढा, बभूवुः पाश्र्ववत्तिनः । प्रद्युम्नमच्युतोपांते, वीक्ष्यं विद्याविभूषितं । गजाश्वरथमारुह्य, नेमुस्ते कृष्णमन्मथौ ॥३०॥ प्रद्युम्नोऽपि कुलीनत्वात्, सर्वान् प्रति ननाम तान् । ऐश्वर्येऽपि कुलीनो हि, विनयं न विमुंचति। समुद्रविजयाधीशा, बलदेवेन संगताः। मिलिताः प्रेमयोगेन, प्रदायालिंगनं भृशं ॥३२॥