________________
सग-११
૧૩૧
केशेषु व्यलगन कांश्चित्कांश्चिच्च बाहुकोटरे । कांश्चित्कर्णयुगे कांश्चि-त्पादयोस्तद्रणांगणे ।१३। चाक्रिकैश्चक्रहस्ताश्च, खङ्गिकः खङ्गपाणयः । कौंतिकैः कुंतहस्ताश्च, क्रोधाद्ययुधिरे भटाः।१४। केचित्खड्गक्षये खड्गान्, मार्गणान्मार्गणक्षये। ददुर्भल्लक्षये भल्लान्, मुद्गरान्मुद्गरक्षये।१५। लक्ष्मीलुब्धा यशोबद्धाः, स्वस्वामिकार्यकारकाः। येऽभवंस्तैः पुन:व, स्वप्राणा अपि चितिताः ॥ हतेभाश्वमनुष्याणां, शरीरैः पर्वतायितं । रुधिरैनिर्गतैस्तेभ्यो, भुवि च निम्नगायितं ॥१७॥ जायमाने रणेऽन्योऽन्यं, सर्वस्यापि भयंकरे । कौतुकेन स्थिता व्योम्नि, चुक्षुभिरे सुरा अपि।१८। प्रद्युम्नस्य बलं ध्वस्तं, यादवीयैस्तदैकशः। हारयत्येकशो वस्तु-रग्रे प्रायो हि नंदनः ॥१९॥ सज्जीभूय भटैस्तस्य युद्धयमानैविशेषतः । नाशितं वैष्णवं सैन्यं प्रभूतममि रंकवत् ॥२०॥ दृष्ट्वा पलायमानंत-बलं बलविजितं । पांडवान् बलदेवं च, विससर्ज नरायणः ॥२१॥ तैस्तूर्णं मान्मथं सैन्यं, प्रणाशितं समंततः । कस्यापि स्याज्जयो युद्ध, कस्यापि च पराजयः ॥२२॥ प्रणश्यदात्मनः सर्व, सैन्यमालोक्य मन्मथः । शीघ्र प्रेषितवान् वीरां-स्तहशान रणकारिणः ।। महतोऽपि मुकुंदस्य, कटकं तैर्दिशोदिशं । प्रापितं कामसैन्यस्य, पुरः कः स्थातुमर्हति ॥२४॥ तथा युयुधिरे वीर-रसेन पांडवादयः । न शुद्धिर्महीपाताल-व्योम्नामपि यथाभवत् ॥२५॥ अर्धचंद्राभिधा बाणा, यदा मुक्ताः परस्परं । छत्राणि लूनदंडानि, पेतुस्तदा क्षमातले ॥२६॥ किमुत्तीर्णा नभोमध्या-च्चद्रा युद्धदिहक्षया। पतितानि क्षितौ तानि, वीक्ष्य लोकाः सशंकिरे।२७। रणोत्सुकास्तदा वीरा, आहूय नामपूर्वकं । मिथो युयुधिरे रोमो-ल्लसध्धृतांगकं कटाः ॥२८॥ कश्चिदूचे प्रतीक्षस्व, कोलाहलं करोषि कि । संयम्य शिरसः केशां-स्त्वया युद्धं करोम्यहं ।२९। कश्चिच्चाकथयद्वीर! जायसे कि समुत्सुकः । पृथिव्यां पतितं शस्त्रं, गृहीत्वा युद्धयते मया।३०। अन्योऽवादीदरे मूर्ख ! रणे किं म्रियसे मुधा। रणोहि कथितो वीरे-देहसंदेहसंयुतः ॥३१॥ तव चंद्रमुखी भार्या, संस्थितास्ति निकेतने। दुखं त्वद्विप्रयोगार्ता, प्राप्नुवंती भविष्यति ॥३२॥ संग्रामे साधनीयौ न, स्वर्गमोक्षौ मनागपि । कथं त्वं मंदबुद्धित्वात्, समरं विदधासि भोः ।३३। इत्यन्योऽन्यं प्रजल्पंतो, हसंतो मान्मथा भटाः । नृत्यंतः समरं चक्रु–ोरं कृष्णभटः सह ।३४। मायामयेषु कुर्वत्सु, युद्धं प्रद्युम्नसेविषु । निहता वासुदेवस्य, भटकोटिहयद्विपाः ॥३६॥ उभयोरपि संग्राम-स्तथा समभवत्तमा । फेत्कारादिकजीवानां, पूर्णो मांसरसो यथा ॥३७॥ संग्राम इति संजाते, मुरारिसेनया सह । पांडवान् बलभद्रं च, कामो जघान मायया ॥३८॥ पराभूतान्निजान् वीरान्, समालोक्य नरायणः । भयकोपेन संयुक्तो, गजं त्यक्त्वाश्रयद्रथं ।३९। आरुह्य स्यंदने विष्णु-युद्धोन्मुखोऽभवत्स्वयं । कांताबंधूपराभूतौ, प्राणान् को गणयेत्पुमान् ॥ પ્રદ્યુમ્ન અને કૃષ્ણના યુદ્ધનું વર્ણન :
હવે કૃષ્ણ અને પ્રદ્યુમ્ન બંનેનાં સૈન્ય મળવાથી પરસ્પર કેવા પ્રકારનું યુદ્ધ થયું તેનું વર્ણન કરવામાં આવે છે ?