________________
૧૨૨
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
पूर्व शुद्धिः कृता येन, येन त्वं मेलितो मम । येन मे नाशितं कष्टं, स कुत्र वर्तते मुनिः ।२५। तनयोऽभ्यदधन्मात-र्यो वैताढ्यशिलोच्चयात् । मया समं समायात-स्तमेव त्वं प्रजल्पसि ।२६। इत्थमेवेति सा प्राह, तदावादीदसौ मुदा । द्वारिकाया बहिर्योम विमानस्थः स तिष्ठति ।२७। साऽऽचरव्यौ स कथं तत्र, तिष्ठत्यत्र समेति न । पुत्रो जगाद ते वध्वा, रक्षायै मुमुचे मया ॥२८॥ हसित्वा मुदिता सोचे, त्वं मयापि समं हसेः । अपाणिगृहीतस्यापि, क्व ते कांता स्नुषा च मे ॥ प्राज्यां जनयितु प्रीति, मातरं प्रजजल्प सः । अविनीतं विजानासि, कि मां यदिति भाषसे ।३०। हास्यं यदि करिष्यामि, संति स्थानानि भूरिशः । त्वया सह कथं तहि, मया तत्प्रविधीयते।३१॥ दुर्योधनेन या कन्या, भानवे प्रेषिताऽभवत् । सा मयापहृता भिल्ल--वेषं विधाय वर्त्मनि ।३२॥ पुरापि स्वीकृतं ह्येत-धुवाभ्यामभवद् ध्र वं । आद्य उद्वहते पुत्रः, कन्यां दुर्योधनापितां ।३३। आद्योऽहं मयि सत्येतां, भानुरुद्वहते कथं ?। विचार्येति मया हृत्वा, सोढा रक्षति तां मुनिः।३४। मयैव सकलं सत्य-भामया रक्षितं वनं । विनाशितं सरोवापी-कूपादयोऽपि शोषिताः ।३५। व्यत्ययः सर्ववस्तूनां, वसुदेवपराभवः । जनितं सत्यभामाया, विडंबनं मयैव च ॥३६॥ पित्रोरनुद्यमेनैव, पाणिग्रहणनिमितेः ।वैरिणां च पराभूति-कृतेः -संतोषमाप सा ॥३७॥ आबाल्यादपि भूयिष्टं-भाग्यं च शक्तिमद्भुतां । ज्ञात्वा हर्षोल्लासच्चित्ता, माता सा तमभाषत येन त्वमुद्यमं कृत्वा. मेलितो मम बंधुना। अथ तं तां स्नुषां दृष्टु-काममुत्सहते मनः ॥३९॥ परोपकारिणं तं च, त्वं मेलयाविलंबतः । इत्युक्ते तनयोऽवोच-त्कथं तं मेलयाम्यहं ।४।। स्वस्मिन् यदि कुटुंबेऽहं, प्रथमं मिलितोऽभवं । तहि मे मेलयाम्येतो, सोचे प्रारजनकं मिल ॥४१॥ तेजस्विराजिभिः प्राज्य-दिवौनिषेवितं । प्रणामकरणेन त्वं, स्वतातमपि तोषय ॥४२॥ स प्राहाऽज्ञातवंशो यः, सुतो विद्याबलान्वितः । विद्याबले दर्शयित्वा, पश्चात्स्वयं प्रकाशयेत् । ततोऽहमेकशः पूर्वं, पित्रा च बांधवैः सह। युद्धं करोमि पाश्चन्मां, ज्ञास्यंति तेऽखिला अपि । गत्वा गृहे रंक इव, स्वाख्यां किं कथयाम्यहं । त्वदीयस्य तनूजस्य, युक्तमेवं न भाषणं ॥४५॥ तदा माता जगौ वत्स, मावादीस्त्वमिति ध्र वं । गुरून् प्रणमतां नृणां, भवेत्प्रत्युत गौरवं ।४६। जनकश्च पितृव्यस्ते, बलिनो यादवा अपि । शक्यंते न त्वया जेतुं, समुदायो हि दुर्जयः ।४७। एतेषां पुरतः पुत्र, हारिते नमनं हि यत् । तद्भविष्यति निदायै, नम प्रथममेव तत् ॥४८॥ स्वविद्याशक्तिविश्वासं, जानन्नाह स मातरं । माभैषीस्त्वं मनाविकतु, ममैकं वचनं कुरु ।४९। सा प्रोचे वचनं तहि, किं मम त्वं प्रजल्पसि । सोऽवोचद्यत्र वर्तंते, नारदर्षिश्च ते वधूः ॥५०॥ प्रसादं प्रविधाय त्वं, समेत्य च मया समं । तत्र तिष्ठ तयोः पार्वे, भयेन परिवजिता ॥५१॥ मच्चिन्ता न त्वया कार्या, मुक्त्वक नेमिनं जिनं । इतरेभ्यो न मे भीतिः, कृपालुस्तीर्थकृत्स तु । पौत्रं वचः समाकर्ण्य, विद्यापराक्रमोत्कटं । जननी चितयामास, प्रकरोम्यथ किं विधे! ।