________________
૧૧૮
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
कथयित्वेति मातुः स, विद्यां प्रेषीत्स्वशक्तितः । गत्वा प्रतोलिकां सापि, बभूव विप्रवेषभृत् ॥ अतिस्थूलोदरं श्रांतं, प्रौढदेहं भयावहं । रूपं कृत्वा च विस्तार्य, कमौ तवार्यशेत सः ।७२। तावत्समागतास्तत्र, रामेण प्रहिता भटाः। विद्यया स्तंभयित्वा तान्, तान् मुमोचैकं प्रजल्पितुं॥ तेन केशवसंसद्या-सीनस्य नीलवाससः। प्रोक्तं सोऽपि क्रुधाध्मातो, जगाद कठिनं वचः ।७४। माननीया न केनापि, रुक्मिणी मंत्रधारिणी। संजातास्ति यतः कृष्णोऽनया मंत्रैर्वशीकृतः ॥ मंत्रस्य बलमेतस्या, गत्वा पश्याम्यहं द्रुतं । इत्युदित्वा स उत्थाय, रुक्मिणीगेहमागमत् ७६। रामस्तत्र समागत्य, हसित्वा चाह रुक्मिणी। विद्यासिद्धा प्रजातासि, सेविता कापि योगिनी॥ विद्यया जनितो वश्यो, बलीयानपि माधवः । ममापि सेवका युद्धे, योद्धारः स्तंभितास्तया ॥ भवेच्च स्तंभनं मेऽपि, तव यद्यथ विद्यया। तहि ज्ञास्याम्यहं तस्याः, प्रत्ययं सुनृतं हृदि ७९। प्रजल्पन्निति रुक्किण्या, गृहद्वारं स यावता। समेतस्तावता तत्र, सुप्तं ब्राह्मणमैक्षत ।८०। अन्नेन जठरं भृत्वा, रुद्ध्वा मार्ग समंततः । द्वारे प्रसुप्तमालोक्य, वाडवं प्रजजल्प सः ।८१॥ अहो ब्राह्मण ! मार्ग त्वं, गंतुं मुंचोत्सुकस्य मे । सद्भिरुल्लंघनीयो न, नूनं विप्रो विशेषतः ।८२। तेनेत्युक्ते स भूदेवो, जगाद यादवोत्तम । सत्यभामागृहे भुंक्त्वा धुनैवाहं समाययौ ।८३। पदमात्रमपीतोऽहं, नास्मि गंतुमहो क्षमः । पणं कृत्वा गृहे तस्या, भुक्तमन्नं महत्तमं ।८४। वलित्वा त्वमतो याहि, सांप्रतं कृपया मम । उत्थातुमक्षमो वर्ते, श्रुत्वेति सान्वतोऽवदत् ॥ कुक्षिभरे हरे विप्र, मृत्वा जठरमात्मनः ।सुप्तः कार्यवियुक्तस्त्व-मस्माभिः सह भाषसे ।८६। कालक्षेपविधानेन, मम कार्य विसीदति । अस्ति प्रयोजनं प्राज्यं, भवने गमनेन च ।८७। आकंठं परकीयं त्वं, लब्ध्वा यत्नं विनान्नकं । भुक्त्वाजगरवद्वारि, पतितो वर्तसे द्विज ॥८॥ भांडान्यन्नेन पूर्णानि, संभवेयुः कदाचन । उदरं तु त्वदीयं न, संभवेद्वाडवावम ।८९॥ भवेद् द्विजन्मनां प्रायो, भक्षणे लौल्यमुच्चकैः । भक्षितं त्वयका तेन, भविष्यत्यप्रमाणकं ।९।। एवमुक्ते द्विजन्मोचे, त्वमहो क्षत्रियाधम । स्वरूपं वेत्सि विप्राणां तहिं ब्रूषे कथं मम?।९१। कोपेनोचे तदा रामो, माकर्षीस्त्वं कदाग्रहं । तवैकशो मया प्रोक्त-मुत्तिष्ठोत्तिष्ठ दुष्ठधीः ॥ उत्थास्यसि न यहि त्वं, तत्कदाग्रहज फलं । गृहाणेति भणित्वा स, तत्क्रमा पाणिनाग्रहीत् ॥ गृहीत्वा तौ पुरद्वार-प्रांतं यावत्स सान्वतः । अघर्षत्तं पुनः पृष्टे-ऽपश्यत्तत्रैव तद्वपुः ।९४। विद्याप्रयोगमालोक्य, मुशलो रुकमिणी जगौ । मयापि सह चेष्टां त्वं, करोषि विद्यया स्वयं ॥ त्वं ननं न हि सामान्या, शाकिनी वर्तसेऽथवा । त्यजत्येव गृहं सापि, त्यक्तोऽहमपि न त्वया ॥ एका स्त्री मानिता भर्ना, सापि विद्यसमन्विता। अन्यं कं मानयेन्मर्त्य, तुच्छप्रकृतिकामदात्॥ ततो मामपि विद्याया, बलेनेयं निपीडयेत् । तथा विडंबयाम्येनां, यथा जानात्यसापि ।९८॥ भाषमाणो निजाद्वक्त्रा-दिति कोपारुणेक्षणः । पुनरप्यागतो द्वार-देशे संकर्षणः क्षणात् ।९९। तं वीक्ष्य भृकुटीभीम, प्रद्युम्नः प्राह मातर । वीरमानी क्रुधाक्रांतः, कोऽयं समेति पूरुषः ॥१०००।