________________
सग-१०
૧૧૫
नारदेनोदितो यस्त्वं, विद्याधरीप्रवर्धितः । सारः षोडशभिलाभ-स्त्वमेव तनयो मम ।२५। ऊपाया बहवः पुत्र, त्वदर्थ जनिता मया । प्रेष्याश्च प्रेरिताः स्थाने, स्थाने त्वदीयशुद्धये ।२६। संप्राप्ता क्वापि शुद्धिर्न, त्वदीया पापतो मया। किंचिदद्यापि जागति, सुकृतं मिलितोऽसि यत् ।। तनये जनकान्मातुः, प्रायो रागोऽधिको भवेत् । इति प्रेमपरीक्षायै, तेन तस्याः प्रतीरितं ।२८। हे भद्रे येन पुत्रेण, सुंदराकारधारिणा। लोके स्यान्महती कीर्तिः, पुत्रः स एव सौख्यदः ।२९। कुरुपैर्मादृशः पुत्र-रुपहास्यविधायिभिः । किं करिष्यसि भूयिष्ट-परिवारद्धिसंयुता ।३०। श्रुत्वा तद्वचनं सोचे, मनाग्बाष्पार्द्रलोचना । याताहकसुतो भूया-त्स एव कुलमंडनं ।३१। विना तेन परिवार-समृद्धि सकलामपि । अहं वृथा विजानामि, सकेतनं निकेतनं ।३२॥ अथाभ्रच्छन्नमार्तंड, इवावृतमहोदयः। सूनो वियोगिनी मां त्वं, संतापयसि किं मुधा ।३३। दुःखि! स्तेहिलां वाणी, मातुराधाय चेतसि । तेन व्यक्तीकृतं रुपं, विद्यया क्रियते न किं ।३४। लक्षणैर्लक्षितं सर्व-भूषणश्च विभूषितं । नरनारिमनोहारि-रुपं स्वाभाविकं बभौ ।३५। जननीमनसस्तुष्टि-पुष्टिसंपादनाय सः । तद्रूपं प्रकटीकृत्या-नमत्तस्याः क्रमांबुजं ।३६। तदा देवकुमारभं, रुपमालोक्य रुक्मिणी । प्रीति यां प्राप तां देवा, अपि नो वक्तुमुद्यताः ॥ मिलितं चिरकालेन, तनयं विनयान्वितं । आलिलिंग चंचुबोच्चै-मौ लौ मौलिसमं कुले ।३८। आलिंग्य जननीपुत्रौ, मुहुर्मुहुः प्रमोदतः । सुखदुःखभरां वार्ता, पप्रच्छतुः परस्परं ।३९। तदा रुकमिण्यवक पुत्र ! , दुखं तव वियोगतः। इयंत समयं याव-भूयो बभूव दुस्सहं ।४०। किंतु पुण्यप्रसंगेन, त्वमद्य मिलितो मम । न मया शैशवं किंतु, पापिन्या तव वीक्षितं ।४१) कष्टेन नवमासांस्त्वं, मयका जठरे धृतः । धन्या कनकमाला सा, यया बाल्येऽपि लालितः ॥ पुत्रस्य शैशवालोक-स्नेहयालु मनो विदन् । प्रद्युम्नो मातुराचख्यौ, सर्वविद्याविचक्षणः ।४३। मातर्मे शशवं दृष्ट-मभिलाषस्तवास्ति चेत । दर्शयामि चमत्कार-कारकं तहि वेगतः ॥४४॥ कथयित्वेति बालस्य, रुपमादाय सुंदरं । संस्थितः पुरतो मातु-स्तयापि स निरीक्षितः ।४५। तं दृष्ट्वा जननी चित्ते, व्यचितयदहो मम । अथाप्यस्ति महद्भाग्यं, सुतो विद्यायुतो यतः॥ तमादाय निजोत्संगे, संस्थाप्य च प्रमोदतः । अगायद् बालगीतानि, मधुरेण स्वरेण सा ।४७। आत्मीयकामनापूर्ति-करणार्थ तयांजसा । स्तन्यपानं तनूजस्य, तस्याकार्यत हर्षतः ॥४८॥ तस्य खेलनवस्तूनि, चानीतानि तया पुनः । सुवर्णरुप्यरत्नादि-विनिमितान्यनेकशः ।४९। सोऽपि तानि समादाया-खेलच्छेशवतःक्षणं । क्षणं रेणौ क्षणं भूमौ, क्षणमङ केऽन्ययोषितां ।५०। क्षणं मातुः करांगुल्यां, विलग्नः प्रांगणे चलन् । किंकिणीनां रणत्कारः, सोऽपूरयनिकेतनं ॥ बालकोचितभूयिष्टा-भरणैः स विभूषितः । प्रतिबिंबमिवार्कस्य, रराज देहतेजसा ।५२॥ क्रीडां कुर्वन्मनो मातु-र्मोहयन् मृष्टभाषणः। ययाचे भक्षणं सापि, पक्वान्नं तं समार्पयत् ॥