________________
१०८
શાંખ–પ્રદ્યુમ્ન ચરિત્ર
सा जगाद पुरस्तात्ते, मुने ! किं कथयाम्यहं । अश्रव्या सुखिभिर्लोक - निद्या कर्मकथा मम । ४६ । मायामुनिर्जगी मात - निःशंकं पुरतो मम । त्वं निवेदय दुःखानां कारणं कर्णदारूणं ॥४७॥ तेनेत्युक्ते जगादासौ, वाक्येन गद्गदेन तु । सत्यभामादिमा देवी, स्वामिनो वर्त्तते हरेः ॥४८ । रुपेण चाभिमानेन लावण्येन समृद्धिभिः । साधिका वर्तते मत्तो, मत्तेवोरुविलासिनी । ४९ । अहं तु नारदप्रोक्त-गुणर्जातानुरागिणी । परिणिता मुकुंदेन, मयि रागं च विभ्रता ॥५०॥ मानताहं नवीनत्वान्माधवेन विशेषतः । मात्सर्यं सा मया साकं, चकार सविकारहृत् । ५१ । मार्त्स्यतस्तयान्येद्यु- निवेदितं पुरो मम । यस्याः पुत्रस्य विवाहः, प्रथमं स्यान्महोत्सवः । ५२ । तस्या अपरया देयाः शिरः सर्वशिरोरुहाः । पुत्रक्रमणपूजाये, पण एवं विधोयते । ५३ । मयापि स्वीकृतं तस्या, वचनं दुःखदायकं । साक्षिणौ तत्र गोविंद रामौ प्रजनितौ तथा । ५४ ॥ मम पुत्रस्तु केनापि, पापिना नाकिना हृतः । भामादास्य समायांति गृहितुं मम कुंतलान् । ५५ । प्राक् कृतेन पणेनाशु मानिन्या सत्यभामया । ता दास्यः प्रेषिताः संति ग्रहीतुं मम कुंतलान् ॥ fir कुर्वेऽथेति दिङ मूढा, संजातास्मि मुनीश्वर । बुद्धिः शुद्धयति केचिन्न, ततो रोदिमि दुःखिता ॥ पुरा शिरःकचोच्छेद-भयान्मर्तुमन्ना यदा । जाताहं मेलयिष्यामि, तनयं तव रुक्मिणि ! 1५८ | एवमाश्वासिता गेहे स्थिताहं नारदर्षिणा । पुत्रकामनया पूर्व - मेव वा न मृता ननु । ५९ । न मया मरणं पूर्वं तस्य वाक्येन निर्मितं । सुतोऽपि मिलितो मे न केशदानं त्वजायत । ६० । निभाण चितां त्वं मा कृथा मानसे वृथा । अद्यापि प्रबलं भाग्य-मस्ति पुण्योदयोऽपि च ।। मिलिष्यति तनूजोऽपि केशानपि न कश्चन । गृहीष्यति ततः प्रौढां मातस्त्वं धीरतां धर । ६२ । कथयित्वेति रुक्मिण्याः, प्रतिबिम्बं विधाय च । स्थापयित्वाऽऽसने तच्च स भूत्वा कंकी स्थितः ॥ तावत्समागता दास्यः, प्रेषिताः सत्यभामया । तां स्थितां मासने दृष्ट्वा, प्रणिपातमकुर्वत ॥ ६४ ॥ प्रणिपत्यावदन् दास्यो -ऽस्माकं देवि न दूषणं । चितनीयं त्वया चित्ते, दोषादोषविचारिके ! । ६५ । वयं वर्त्तामहे दास्यो, हास्योचितवपुलताः । स्वामिन्युदितकर्त्तव्य - निष्पादनोपजीवनाः । ६६ । मायारुपावदद्दासीः, किमर्थं यूयमागताः । ताः प्रोचुः प्रेषिताः सत्य - भामया वयमागताः । ६७ । पुनरप्यब्रवीत्सैवं, लोकनापितसंयुताः । किं कारणं समुद्दिश्य, भामया प्रेषिता इह | ६८ | ताः प्राहुविनयेनैव, पुरा स्वामिनि यः पणः । कृतोऽभवद्युवाभ्यां च तदर्थं प्रेषिता वयं । ६९ । तत्स्वकीयं पणं स्मृत्वा चेद्दास्यसि शिरोरुहान् । तर्हि त्वं देहि नो देय - मस्माकं खलु दूषणं । तासामेवं समाकर्ण्य वचनं चित्तशोचनं । मायामयी तदावादी - युष्माभिः सुंदरं कृतं ॥ ७१ ॥ सेव्यसेवक भावो हि तादृशो वर्त्तते खलु । ततो दोषो न युष्माकं, स्वस्वामिनीवचः कृते ॥७२॥
कार्याथ दिवाकीर्ति, यूयं गृह्णीत वेणिकां । गृहीत्वा च स्वस्वामिन्यै, प्रदेया संमदाय सा । ७३ । इत्युक्ते नापितं तूर्ण - माकार्य ता बभाषिरे । समेत्य रुक्मिणीदेव्या गृहाण त्वं शिरःकचान् ॥ बिभ्यंस्तासां गिरा याव - तत्पार्श्व स समागतः । रुक्मिर्थ्याभिदधत्ताव- द्वेणों गृहाण निर्भयं ॥ ७५ ॥