________________
૧૦૪
श-प्रधुम्न यति
तावत्तत्रासने देवी-मिव स्थितां च रुक्मिणीं। सोऽद्राक्षीद्धरिणाक्षीं तां, क्षीणरुपैकसंपदं ।८६। भूरिभूषणभूषाभि-भूषितामासनस्थितां । दृष्टिभ्यां तां समालोक्य, मानसे स चितयत् ॥ किमेषाखंडलस्त्रीणां-मभिमानं विदितुं। निष्पादिता विधात्रास्ति, मर्त्यलोकेंगनोत्तमा ।८८। विमृशंतमिति स्वांत, आगच्छंत समीक्ष्य तं । यतिवेषधरत्वेन, ननाम मुदिता भृशं ।८९। विनयाद्विष्टरं दातुं, रुक्मिणो यावदुत्थिता । कृष्णस्यैवासनं ताव-निर्भयं तस्थिवानसौ ।९०। समेतासनमादाय, यावत्कृष्णासने स्थितं । तं दृष्ट्वा रुक्मिणी प्रोचे, विनयान्मृष्टभाषया ॥ तिष्ठेदत्रासने साधो, कृष्णोऽथवा तदंगजः । यस्तिष्ठेदपरः कश्चि-द्देव्यः पराभवंति तं ।९२। सोऽवग्भद्रे न जानासि, बालसाधुस्वरूपकं । तस्य तपःप्रभावेण, न कश्चन पराभवेत् ।९३। तदा तया मुनिः पृष्टः, किमर्थं त्वमिहागतः । स प्राह षोडशाब्दी च, तपस्तीव्र कृतं मया ॥ आजन्मतोऽपि नो चक्रे, जननीस्तनपानकं । तत्पारणार्थमायातो-ऽहमद्य तव सद्मनि ।९५। सा जगाद त्वया प्रोक्तं, यत्तपः षोडशाब्दिकं । तदसत्यं चतुर्थादि, संवत्सरांतमस्ति तत् ।९६। सोऽवोचत्किं तवैतेन, विवादेन प्रयोजनं । यदि स्याद्धाम्नि ते किचि-तद्देहि मम सत्वरं ।९७। रुक्मिण्युवाच बालर्षे ?, मे मंदिरे विषण्णता । वरीवति किमप्यद्य, पाचितं न ततो मया ।९८॥ मुनिर्बभाण ते गेहे, किं विषादनिबंधनं । सोचे सुतवियोगेन, तदस्ति बहुदुःखकृत् ।९९। आराधिता मया पूजो-पवासैः कुलदेवता । अनेहसमियंतं च, सूनुसंगमकाम्यया ।८००। न ताभिरपि मत्पुत्रो, मेलितो द्राविषादहृत् । दातुकामाभवं मौलिं, ततोऽहमतिदुःखिता ।१। यावदेवं च कुर्वेऽहं, तावद्देव्योऽपि मां जगुः । माभूस्त्वमुत्सुका वत्से, तव पुत्रो मिलिष्यति ।२। मया पृष्टा महादेव्यः, कदा मे स मिलिष्यति। प्रोचुस्ताः सहकारोऽयं, फलिष्यति यदा तव ।। आम्रोऽयं फलितः सोऽपि, न पुनर्मिलितः सुतः । अयथार्था ततो वाणी, देवीनामप्यजायत ।४। सीमंधरजिनोक्तानि, चिह्नानि निखिलान्यपि । मिलितानि तथाप्याप्तो, नांगजो हृदयंगमः।५। तदर्थं त्वमपि प्रोत्या, होरालग्ने विलोकय । स प्रोचे रिक्तपाणीनां न स्यातां ते फलप्रदे ।। रुक्मिण्याख्यदहो साधो, किं ददामि तवेप्सितुं । स प्राह मम भोज्यं त्वं, प्रयच्छ स्वच्छमानसे ॥ निलयांतर्गता तस्माद्, द्रव्याणि प्रविलोकितुं । हृदयोद्वेगधारित्वात्, किमप्याप्तं तया न हि ।८। वह्निसंधुक्षणं चक्रे, तत्पाकाय द्रुतं तया । सोऽपि न प्रकटीभूतः, स्तंभितस्तेन विद्यया ।९। तदा मुनिजगौ काल-क्षेपं त्वं विदधासि किं । त्वद्गेहे यद्भवेत्सिद्धं, तदेव त्वं प्रदेहि मे ॥१०॥ सा प्राह मोदकाः शुद्धा, वर्तते मम मंदिरे । किंतु कृष्णंविना ते स्यु-दुर्जराःक्षीणवर्मणां ॥११॥ यतिहत्याभवं पापं, भवेत्तेषां प्रदानतः । ततस्तान प्रदास्यामि, क्षुधितस्यापि ते मुने ! ॥१२॥ स्मित्वेषत्साधुराचख्या-वस्मात्तपःप्रभावतः । दुर्जराः सुजरा एव, स्युः प्रक्षीणवपुष्यपि ।१३। तद्वाक्येनैक एकोऽपि, प्रदायि मोदकस्तया। शीघ्रमभुक्तासौ, मातृवत्तं च मोदकं ॥१४॥