________________
सग-१०
कांचनं पित्तलं कुर्वन्, पित्तलं तपनीयकं । रजतं शुक्तिकाखंडं, शुक्तिका रजतोपमा ।२५। रत्नानि काचखंडांश्च, काचखंडान्मणीनिभान् । मौक्तिकानि युगंधर्य-स्ता मुक्ताफलसंचयान् । घृतानि कांततैलानि, तैलान्यपि घृतानि च । वस्त्राणि पट्टकूलानि, पट्टकूलानि तानि च ।२७। विनोदजननेनेति, भूपालवम॑नि व्रजन् । प्रभूतभूतिसंयुक्तं, प्रमादं स व्यलोकयत् ।२८।
નગરીમાં આગળ ચાલતા પ્રદ્યુમ્ન દુકાનમાં રહેલા દુર્ગધી પદાર્થોને સુગંધીમાં અને સુગંધી પદાર્થોને દુર્ગધીમાં ફેરવી નાખ્યા. તેવી રીતે મેળને કસ્તુરી રૂપે અને કસ્તુરીને ખેળ રૂપે, કપૂરને મીઠા રૂપે અને મીઠા (નમક)ને કપૂર રૂપે બનાવી દીધાં. તેમ ગધેડાને હાથી અને હાથીઓને ગધેડા, ખચ્ચરોને અશ્વો અને અશ્વોને ખરચર, સુવર્ણને પિત્તલ અને પિત્તલને સુવર્ણ, ચાંદીને છીપ અને છીપને ચાંદી, રત્નોને કાચના ટુકડા અને કાચના ટુકડાને રત્ન, મૌક્તિક (ખેતી) ને જવાર અને જવારને મૌક્તિક, ઘીના ડબ્બાને તેલ અને તેલના ડબ્બાને ઘી. ચીનાઈ (રેશમી) વસ્ત્રોને સૂતરાઉ અને સૂતરાઉ વસ્ત્રોને રેશમી વસ્ત્રો બનાવતે ચાલ્યો. આ રીતે હાથના સ્પર્શ માત્રથી રાજમાર્ગમાં આવેલી દુકાનમાં કૌતુકથી પરાવર્તન કરતા આનંદપૂર્વક આગળ ચાલ્યો. उत्तुंगानां करेणूनां, कपोलाभ्यां विनिर्गतः । मदेर्जबालमप्युच्चैः, तत्राभूदभितो मही ।२९। तत्र स्खलद्गतिविद्या-मप्राक्षीदेष वाडवः । प्रासादोऽयं प्रवर्तेत, कस्य विश्वंभराविभोः ।३०। सावदद्वसुदेवस्य, भवत्पितामहस्य हि । प्रासादो एष राजेत, भूरिशोभाविभूषितः ।३१। पप्रच्छ पुनरेतस्य, वल्लभं कि प्रवर्तते । हृद्या विद्यावदन्मेष-युद्धं प्रबंधनिर्मितं ।३२॥ तदुक्तं स श्रुतौ श्रुत्वा, मेषं विकुऱ्या विद्यया । समुत्पादयितुं चित्रं, वसुदेवगृहं गतः ।३३। सुवर्णतोरणान्वीतं, वैजयंतीविराजितं । बंदिनां जयनिर्घोषैः, पूरितं चित्रविचित्रं ॥३४॥ गजराजिलसद्वाजि-भ्राजिसारंगसुन्दरं । गोद्धीपिकेसरिव्याघ-र्युक्तं सोऽविशदंगणं ।३५॥ द्वारपालाज्ञया याव-प्रतोलीमध्यमाश्रयत् । तावत्प्रौढप्रतापाढ्यं, वसुदेवं स दृष्टवान् ।३६। हरिविष्टरमासीनं, चामीकरमणीमयं । तं वीक्ष्य मेरु,घस्थ-मार्तण्डभ्रांतिमादधत् ।३७। अभीक्ष्णं वीक्षमाणैश्च, भूपपुत्रैः सुसेवितं । पितामहं महापुण्यं, चारुरूपं ननाम सः ।३८॥ गृहीतं पंचशाखाभ्यां स्वर्णशृखलसंयुतं । वीक्ष्य मेषं सुंमंजीरं, वसुदेवोऽभ्यधात्स्वयं ।३९। अहो वाडव कस्याय-मुरभ्रो वर्तते वरः। त्वयात्र कथमानीतः, सत्यं कथयतां मम ।४०। स प्राजल्पदुरभ्रोऽयं, वर्तते मम भूपते । अत्र प्रदर्शनार्थं ते, समानीतोऽस्त्ययं मया ।४१। कृता एतेन संग्रामा, अन्यः सार्धमनेकशः। ततोऽयं सबलो मेषो, वर्तते सर्वतोऽधिकः ।४२॥ महतामपि मेषाणां, कलाबलविशालिनां । दृष्टचराणि युद्धानि, समभूवन् पुरा त्वया ।४३। मेषयुद्धपरीक्षायां, वर्तसे कुशलो यदि । एकशोऽस्यापि संग्राम, तहि त्वं प्रविलोकय ।४४। इत्युक्ते वसुदेवोऽवग्, दुर्जयो यदि ते हुडु । तदेष बलिना मे हि, जानुना सह युध्यतां ।४५। मज्जानु यदि मथ्नाति, तवायं सबलो हुडुः । तदाहमपि जानामि, सर्वतोऽमुं बलाधिकं ।४६।