________________
300
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
પિતાના પરણેતર પતિ તરીકે મધુરાજાને માને છે. આ પ્રમાણે ગાઢ પ્રીતિથી બંધાયેલા એકબીજા લેગ સુખને ભેગવતા પોતાના જન્મને સફળ માને છે. अथेंदुप्रभया साकं, ये मंत्रिसौविदल्लकाः । तत्र मुक्ता अभूवंस्ते, गत्वा हेमरथं जगुः ॥५१॥ स्वामिन्मित्रतया योंगी कृतस्त्वया मधुम्रपः । रिपुभ्योऽपि विशेषेण, रिपुर्जेयस्त्वया स हि।।५२॥ दुरात्मना पुरा तेन, या मैत्री जनिता त्वया । केवलं तव कांतार्थ, सा कापटयेन निर्मिता॥५३॥ यदर्थ विहिता मैत्री, दंभिना मधुभूभुजा। सा कृता सफला तेन, तव स्त्रीरक्षणाद्गृहे ॥५४॥ तन्मुखादिति वृत्तांतं, श्रुत्वा हेमरथोऽवदत् । युष्माभिहस्यते किं वा, यथातथं निगद्यते ॥५५॥ ते प्रोचुर्नाथ ! हास्यस्य, संति स्थानान्यनेकशः।मधुना रक्षिता ते स्त्री, जल्पामः सत्यमेव तत् ॥५६॥ स्वनारीरक्ष णोदंत-माकर्ण्य मूर्छया भुवि । पपात भग्नरथव-द्धमरथोऽतिदुःखतः ।।५७॥ सेवकैः स्वामिनो भक्तैः, शीतलैरुपचारकैः । यावत्सज्जीकृतो भूप-स्तावदूचे स विह्वलः ॥५८॥ सज्जीभवत रे भृत्याः, सन्नाहं परिधीयतां । लंटित्वा सकलायोध्यां, बध्ध्वाऽऽनयत तं मधुं ॥५९॥ कियन्मात्रो भधुर्दुष्टो, यो रक्षति मम स्त्रियं । गत्वा तत्राधुनेवाह, छिनगि तस्य मस्तकं ॥६०॥ व्याकुलं स्त्रीवि योगेन, लपंतमसमंजसं । वलीयांसं मधुं ज्ञात्वा-मात्या हेमरथं जगुः ॥६१॥ नाथ त्वत्तो मधुक्ष्मापो,बलेन व तेते महान् । ततो ग्राह्यं शनैवैरं, प्रलापर्ने प्रयोजनं ॥६२॥ सत्यान्यमात्यवाक्यानि, जानन् हेमरथो हदि । संस्थितो मौनमालंज्य, लुंटिताशेषवस्तुवत्॥६३॥ स्भारं स्मारं प्रियादुःख, हृद्यजत्रं नृपोऽभवत् । वातुलः क्रमतस्तेन, वैकल्यं चोररीकृतं ॥६४॥ वैकल्येनाभवत्तेन, ग्रथिलः पार्थिवोऽप्यसौ । ततो गायति रागेण, कदाचिद्रोदिति स्वयं ॥६५॥ कदाचिद्धसति स्वैरं, शे ते कदाचिदालये। कदाचिच्च सभामेति, नायात्यपि कदाचन ॥६६॥ हा प्रिये क्व ग तासि त्वं, हा प्रिये किं न जल्पसि । हा प्रिये भ्रविकारांश्च, कथं दर्शयसि न मे॥६७॥ हा प्रिये जल्पिता त्वं न, कदापि मौनमाश्रयः । मम स्नेहपरीक्षार्थ, सांप्रतं किं ब्रवीषि न ॥६८॥ देवानां या भवेदेव, सातत्यान्मनसापि च । मिलेद्देव्यपि सुभ्र त्वं, कथंचिदपि नो मिलेः॥६९।। प्राणेभ्योऽप्यधिक मेऽभू-स्त्वमेंदुप्रभे प्रियोस्थिता प्रच्छन्नवृत्त्या किं, दक्षता कलितापि च ॥७०॥ संति प्राणास्त्वदायत्ताः, किं न जानासि का विदे।त्वां विना ते कथं देहे, स्थास्यति मम मानिनि ॥७१॥ त्वां विना नगरं शून्यं, त्वां विना मंदिरं पुनः । त्वां विना हृदयं शून्यं, त्वां विना च वर्षमम ॥७२॥ शून्या त्वया विना शय्या, दीर्घा रात्रिस्त्वया विना।अन्नपानरुचिर्नास्ति, दिवसेऽपि त्वया विना ॥७३॥ मया तवापराद्ध किं, विरुद्धं यदिवोदितं । देवि त्वं प्रकटीभूय, निवेदय यथास्थितं ॥७४॥ विजानाम्यथवा माम-कीनप्रमादयोगतः । निलये रक्षितासि त्वं, मधुना द्रोहवर्धिना ॥७५॥ वक्त्रेणेदंप्रभेव त्व-मिदुप्रभे हितैषिणि । त्वदेकध्यानलीनं मां, विना तेऽभूत्कथं सुखं ॥७६॥