________________
२६८
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
जैनधर्म समाराध्य, युवां ततो दिवं गतौ । स्वर्गाच्च्युत्वा च संजातौ, श्रेष्टिपुत्रावुभावपि ॥५६॥ तीव्रमिथ्यात्वसम्यक्त्व-फलं समुपलभ्यते । भवे तत्रैव वान्यत्र, दुःखसौख्यनिबंधनं ॥५७॥ पूर्वजन्मस्वरूपं च, निजपित्रोनिशम्य च । जातौ संवेगसंपूर्णा-वुभावपि सहोदरौं ॥५८॥ भवेयुरुत्तमाः पुत्रा, ये धर्ममतिधारिणः । स्वकीयौ पितरौ धर्मे, ते स्थापयंति भक्तये ॥५९।। विचार्येति कृतार्थत्वं, संपादयितुमात्मनः । दापयामासतुर्धर्म, तौ पित्रोः साधुसन्निधौ ।।६०॥ पूर्वजन्मतनुजाभ्यां, वांचंयमसमीपतः। आहेतो दापितो धर्म-चांडालेन धृतो मुदा ।।६१॥ श्वपचेन यथाधारि, जैनधर्मः सुखावहः । जगृहे सारमेय्यापि, धर्मस्तेन समं तथा ॥६२॥ कथं गतिः? कथं जातिः कथं योनिः? कथं जनिः?|भ्रमद्भिः संसृतौ जी वै-विस्मयस्थानमाप्यते॥६३ चिंतयंताविति स्वांते, जैनधर्मप्रभावतः । भावयतावनित्यत्वं, तावभूतां च जन्मनः ॥६४॥ इतो भवे तृतीये का, बभूव जातिरावयोः । मिथ्यात्वपापयोगेन, कीदृशी विद्यतेऽधुना ॥६५॥ स्मरंतौ यतिवाक्येन, स्वकीयां जातिमुत्तमा । शुनीचांडालकौ चित्ते, ऽदधातां दुःखमुच्चकैः ॥६६॥ अथावयोः समुद्धारो, भविष्यति विनिश्चयात् । प्राप्त्या जैनस्य धर्मस्य, तौ संतुतुषतुर्भशं ॥६७॥ चत्वारोऽपि यथा साद्धे, समागता निनसया । तथा प्रतिगताः स्थानं, मुनि नत्वा प्रमोदतः॥६८॥ सम्यक्त्वपूर्वकाणि द्वा-दशवतानि दक्षवत् । सम्यगाराधयामास, चांडालोऽपि कुकर्मकृत् ॥६९॥ आराध्य मासमे के स, व्रतानि तानि भावतः । मृत्वा नंदीश्वरे देवः, पंचपल्यायुषोऽभवत् ॥७०॥ पालयित्वा दिनान सप्त, धमे कुगतिदारकं । तत्रैव नगरे राज्ञ-स्तनया समभूच्छुनी ॥७१॥ वर्धमाना शशांकस्य, कलेव कलयानिशं । यौवनं पावनं प्राप्ता, कामिमानसविस्मयं ॥७२॥ तस्या वीक्ष्यान्यदा रूपं, नृपचिंता चकार च । एतस्याः को वरो भावी, कलारूपादिसंयुतः ॥७३॥ पुत्रीमेनां प्रदास्यामि, तस्मै वराय शर्मणे । भविष्यति रुचौ योऽस्या-थातुर्यकमलायुतः ॥७४॥ इति संचित्य भूपेन, स्वयंवरणमंडपं । प्रारभ्याकारिता भूपाः सुरूपापलगर्विताः ॥७५॥ तत्रागतेषु भूपेषु, नंदीश्वरात्सुरो ब्रजन । वैदितुमाहत्चैत्यानि, प्रसंगादवतीर्णवान् ।।७६॥ दृष्टस्तेनावतीन, स्वयंवरणमंडपः । कौतुकान्मत्यरूपेण, तत्र वदारकः स्थितः ॥७७॥ अलंकारेण संयुक्ता, पुरतो वेत्रीधारिणी । यावदेति समां कन्या, विरुदभूतिपूर्वकं ॥७८॥ जाया जन्मांतरी येयं, वर्तते मम निश्चयात् । अवधिज्ञानतस्ताव-त्कन्या तेन विलोकिता ॥७९॥ भवत्रयस्वरूपं यद् ,सुकं विडम्बनाकरं । तत्किं विस्मारितं मुग्धे, सेति देवेन भाषिता ॥८॥ संसारपापवृक्षस्य, दुर्गतेः फलवर्धकं । स्वयंवरे त्वया किं नु, प्रारब्धं पाणिपीडनं ॥८१॥ अद्यापि प्रतियुध्यस्व, मुक्त्वा च करपीडनं । अनंतसुखसंपादि, कुरु त्वमात्मसाधनं ॥८२॥ आसमाराधितधर्मा, ये भवति शरीरिणः । तेषामल्पोपदेशेन, प्रतिवोधः प्रजायते ॥८३॥