________________
सर्ग-७
२९७
देवार्चनं प्रकुर्वाणी, त्रिकालं भावपूर्वकं । दयां प्राणिगणे दानं ददानावथिंपूरुषे ॥ २८॥ जयंतौ महातीर्थ-यात्रां द्रव्यव्ययेन च । ध्यायंतौ जिनपध्यानं तर्पतौ निजशक्तितः ॥ २९ ॥ जिन प्रणीतशास्त्राणि, शृण्वानौ गुरुसन्निधौ । परोकारचेतस्कौ, धरंतौ धर्मबंधुरं ||३०|| सर्वकालोचितान् भोगानू, भुञ्जानौ च यदृच्छया । गमयामासतुः कालं, तौ द्वौ सुखेन देववत् ॥ ३१ ॥ अथान्यदा मुनिः कश्चिद्, ज्ञानी ध्यान्यागमद्वने । तत्समागमनं श्रुत्वा, निनंसू तौ बभूवतुः ||३२|| वंदितुं तं मुनिं याव - तावगातां प्रमोदतः । चांडालो मिलितस्ताव – तयोः शुनीयुतोऽध्वनि ॥ ३३ ॥ शुनियुक्तेऽपि चाण्डाले, नेत्रे तयोरतुष्यतां । नृनेत्रे एव पूर्व हि, रागद्वेषैकसूचके ॥ ३४ ॥ द्वयोरालोकनादेव भ्रातोर्विहिततोषयोः । भृशं तुतुषतुनेंत्रे, शुनीचांडालयोरपि ||३५|| आलिंग्यते मिथः शीघ्र--मिति मोहसमुद्भवः । चतुर्णामपि चितेऽभू -- त्संबधात्पूर्वजन्मनः ॥३६॥ गच्छतोर्द्विजयोर्मार्गे, चांडालोऽपि शुनीयुतः । मोहोद्रेकेण तत्साध--मभवद्भ तुमुत्सुकः ॥ ३७॥ विप्राभ्यामपि मोहेन, निषेध्धुं न च शक्यते । चत्वारोऽपि ततः सार्धं, यतिनं वंदितुं गताः ॥ ३८ ॥ श्रावकाभ्यां द्विजन्मभ्यां वंदितो मुनिरादरात् । तथा शुनीश्वपाकाभ्या -- मपि तत्सार्थ योगतः । ३९ ॥ नत्वा पुरो निषष्णानां चतुर्णामपि सौख्यतः । देशना मुनिनारेभे, मुनिर्हि धर्मदेशकः ॥४०॥ धर्मोपदेशमाकर्ण्य, संसारभ्रमनाशिनं । उभाभ्यामपि विप्राभ्यामपृच्छयत तपोधनाः ॥४१॥ प्रभो ह्यत्रोपविष्टौ स्तः शुनीचांडालकाविमौ । अनयोश्वावयोर्मोहः, को हेतुकः प्रवर्त्तते ॥४२॥ काल स्वरूपस्य वेत्ता च्छेता भवन् मुनिः । भवांतरमभाषिट विप्रयोरुभयोरपि ॥४३॥ शालिग्रामे पुराभूता - मेतौ ब्राह्मणवंशजौ । आख्यया सोमदेवोऽभू – दशिला च तदंगना ॥ ४४ ॥ उभयोरपि दंपत्यो— रिभ्ययोः स्नेहपूर्णयोः । षट्कर्मासक्तयोः पुत्रौ तयोरभवताम् युवां ॥४५॥ युवयोः प्रथमस्याख्या– ग्निभूतिरभवत्पुरा । वायुभूति द्वितीयस्य, पितृभ्यां प्रवि निर्मिता ॥ ४६ ॥ पितरौ तु प्रभूतेन, मिथ्यात्वेन विमोहितौ । भृशं मूर्नित्यं जैनधर्मपराङ्मुखौ ॥४७॥ वेदाभ्यासकरौ नित्यं, शौचधर्मे च विभ्रतौ । तर्पणश्राद्धहोमादि – निजकर्तव्यतत्परौ ॥ ४८ ॥ युवयोः कष्टसंयोग - दातजैनधर्मकौ । भुक्त-वांतपरमान्ना — विव वांतार्हतोदितौ ॥ ४९ ॥ आर्हतश्रेयसो बांत्या, तस्यैव च जुगुप्सया । युवयोः पितरौ मृत्या, प्रथमे नरके गतौ ॥ ५० ॥ ये निंदामपरस्यापि, जुगुप्सां वा प्रकुर्वते । ते यांति नरकं घोर - मसंख्यदुःखदायकं ॥ ५१ ॥ विशेषाज्जिनधर्मस्य, जैनवाक्यरतस्य च । ये नराः कुर्वते निंदां, भवेत्तेषामधोगतिः || ५२ || भुक्त्वायुर्नरके तंत्र, पंचपल्यप्रमाणकं । अयोध्यायां समुत्पन्नो, शुनीचांडालकाविमौ ॥ ५३ ॥ शुनी या वर्तते सा तु जननी युवयोरभूत् । इतो भवे तृतीयस्मि - वांडालो जनकः पुनः ॥ ५४ ॥ पूर्वजन्माभिसंबंधा-देतयोर्युवयोरपि । स्नेहः प्रजायते प्रायः स्नेहो हि पूर्वजन्मजः ॥ ५५ ॥
1