________________
२४२
શાંખ-પ્રદ્યુમ્ન ચાત્ર
રાત્રિના અંધકારમાં ચેરને વેષ ધારણ કરી હાથમાં ધનુષ્યબાણુ કૃપાણુ-તલવાર વિગેરે લઈ ને લપાતા છૂપાતા સાધુના સ્થાન ભણી આવ્યા.
1
इतश्च विप्रपुत्राभ्य, साकं वादं विजित्य च । गुरूणां गदितुं वाद-स्वरूपं सत्यकिर्गतः ||३५|| गुरूणामति गत्वा, नत्वा च तत्क्रमाम्बुजं । विनयाद्वचनं प्रोचे, शिष्यो हि विनयी प्रियः || ३६ || विभो ! वाडवसूनुभ्यां समं वादोऽद्य निर्मितः । तत्करणेन मेऽभूद्यत्, प्रायश्चित्तं तदर्पया ||३७|| शिरो धन्वन् गुरुः प्राह, वत्सैताभ्यां समं त्वया । यो विवादः कृतस्ती - स्तद्वरं न विनिर्मितं ३८ वर्तेते पापिनावेतौ, दुरात्मानौ दुराशयौ । यतिघातविधाने हि निर्दयत्वसमन्वितौ ॥३९॥ निर्भत्सितौ च पितृभ्यां रात्रावस्यां समेत्य तौा मरणांत मुपसर्गे च साधूनां प्रविधास्यतः॥४०॥ गुरुवाक्यप्रतीतिं हि संदधानः स्वमानसे । साधूपसर्गतो भीतो, जजल्प सत्यकिती ॥४१॥ मुनीनामुपसर्गथे-ज्जायते मयि सत्यपि । क्षणभंगुरशीलेन, तदा किं जीवितेन मे ॥ ४२ ॥ किंतु कश्चिदुपायोsस्ति, दुष्टाभ्यां प्रविनिर्मितः । उपसर्गः किलैताभ्यां येन न स्यात्तपस्विनां ।। ४३ गुरुर्जगाद श्रुत्वेति, यत्र वादः कृतस्त्वया । गच्छ स्वच्छमना वत्स, प्रदोषे तत्र कानने ॥ ४४ ॥ वर्तते क्षेत्रपालः स — प्रत्ययस्तदधिष्ठितः । यत्पार्श्वे मार्गयित्वाज्ञां, स्थेयं ध्यानैस्त्वया निशि ॥ ४५ ॥ श्रीजिनाख्या महामंत्र - - ध्यानेन संस्थिते त्वयि । क्रोधांधौ तौ समागत्य, स्थास्यतस्त्वज्जिघांसया४६ चतुर्विधस्य संघस्य, तदा रक्षा भविष्यति । विधातव्यं त्वया वत्स, वचनं भाषितं मया ॥४७॥ एवं श्रीगुरुवाक्येन, क्षामयित्वाखिलानपि । निर्गतः स ततः स्थाना- द्वर्मध्यानपरायणः || ४८ || आगत्य विधिना तत्र, याचित्वा तदवग्रहं । क्षेत्रपालांतिके तेन, स्थितं ध्यानैकचेतसा ॥ ४९ ॥ तावत्तत्र समायातौ, दुष्टौ तौ वाडवांगजौ । निरीक्ष्यैकाकिनं ध्यान -- लीनं तौ तोषमापतुः ॥ ५०॥ वल्लभं पुरुषं वीक्ष्यै -- काकिनं वैरिणं पुनः तन्मानसा हि मोदते, निजकृत्यविधित्सया ।। ५१ ।। ततोऽमुं मारयित्वाथो, दुरात्मानं तपोधनं । वैरमावां ग्रहीष्यावः, पौरलोकापमानजं ॥ ५२ ॥ एतदेव वरं जातं, यदयं दृग्पथेऽभवत् । दृग्पथेऽयं यदा जातो, तदार्थसिद्धिरावयोः ॥ ५३ ॥ आवयोर्वर्तते वैर——मेतेनैव दुरात्मना । प्रथमं मारणीयोऽयं, ततो वैरजिघृक्षया ॥५४॥ विचार्ये ति निजे भाले, भृकुटिं ज्यां च धन्वनि । आरोप्य प्रोचतुर्दुष्टा - - ध्यवसायौ द्विजात्मजौ५५ रे पापिष्ट मनोधृष्ट, विशिष्टाचारवर्जितः । यः पौराणां पुरो वादे, मन्तुः कृतोऽस्ति तं स्मर ॥ ५६ ॥ सत्यकिर्ध्यानलीनत्वा-न जल्पति मनागपि । तदाविर्भूतकोपौ तावूचतुश्च द्विजांगजौ ॥५७॥ मौनं कृत्वा स्थितोऽसि त्वमेकाकित्वेन रे शठ ! | मानभंगं च कृत्वा नौ, मौनं वा सर्वसाधनं ५८ उदित्वेति कनिष्टश्च ज्येष्टं जगाद बांधवं । वृद्धत्वात्प्रथमं देहि, प्रहारं त्वं सहोदर ! ॥ ५९ ॥ सोऽप्याह पूर्वमेवामुं न हनिष्यामि सर्वथा । यतिहत्याभवं घोरं पापं शास्त्रेऽस्ति भाषितं ॥ ६० ॥
1