________________
सग-१
૨૩૯
બને છે. ક્યારેક પુત્રવધૂ તે બેન અને બેન તે પુત્રવધૂ બને છે. આ પ્રમાણે કર્મની વિચિત્રતાથી સંસારના સ્વરૂપને વિચારી વૈરાગી એવા ભવિ જીવે પુણ્યનો સંચય કરે જઈએ. પુણ્ય સંચય માટે તેવા પ્રકારને પ્રશસ્ય યત્ન કરવો કે જેથી આ સંસારમાં ફરીથી નિકોટિના અવાચ્ય સંબંધે કરવા ના પડે. मुनिवाक्यमिति श्रुत्वा, मौनवान् ब्राह्मणाग्रणीः । साधुपादौ नमस्कृत्य, विनयेन न्यवेदयत् ।।९९॥ स्वमिस्त्वद्वचनेनाहं, विरोक्तोऽस्मि भवोदधेः । पितृ-स्वजनबंधूनां, संबंधे न प्रयोजन।।८००॥ संसारतारिणी सद्यो, नरकापत्तिवारिणीं । कल्याणकारिणीं दीक्षां, ततः प्रसद्य देहि मां ॥१॥ उवाच मुनिनाथोऽपि, तं प्रति मधुरं वचः । यदि दीक्षाजिघृक्षा ते तर्हि मद्वचनं कुरु ॥२॥ एकश पितरौ बंधून् ,स्वजनान्निखिलानपि । स्पष्टया मृष्टया वाचा, प्रजल्पय द्विजोत्तम ! ३॥ स मौनी साधुवाक्येन, कुटुंबं तत्र संस्थितं । दृष्ट्वा गत्वामिलत्तर्ण, गुरुवाक्यं न लंघयेत् ॥४॥ अद्य यावत्पितर्मात-रवज्ञा या कृता मया । क्षतव्या सा कुटुंबेन, समस्तेन मनीषिणा ॥५॥ कोमलानि विनीतानि, श्रुत्वा वचांसि कर्णयोः । कुटुबं सकलं, पित्रा–दिकं रुरोद दुखतः ॥६॥ अद्य यावत्वया वत्स, किं वयं विप्रतारिताः । रुदंतः कथयामासुः सर्वेऽपि स्वजना जनाः ॥७॥ सोऽजल्पत्स्वजना यूयं, मा रोदिषुमुहुमुहुः । अनंतशः सुतत्वेन, संजातो भवतामहं ॥८॥ मत्कुटुम्बतया यूय-मपि जाता अनंतशः । कस्मिन कस्मिन भवे मोहो, विधीयते विचक्षणैः ९॥ यदि कौटुम्बिका यूयं, वर्तध्वे मम वल्लभाः । तथा कुरुत नाप्नोम्य-वतारं निंद्यमीदृशं ॥१०॥ स्वजना जगदुर्वत्स, स उपायः समस्ति कः । येनेदृशो न संबंधः, संप्राप्यते शरीरिभिः ।।११॥ सोऽवादीद्विनयेनैव, दीक्षां जैनेश्वरी यदि । आदायाराध्यते सम्य-विरूद्धाः स्युने ते तदा।।१२॥ ततो यदि ममाभीष्टाः शिष्टाचारपरायणाः । सद्यः प्रसद्य दीक्षा मे, समर्पयत शर्मणे ॥१३॥ श्रुत्वा तद्वाचमूचुस्ते, वयं ब्राह्मणजातिजाः । अस्माकं जनने जैनी, दीक्षा न सर्वथोचिता ॥१४॥ संसारसुखतो यहि, विरक्तस्त्वं भविष्यसि । सान्यासिकं तदा शुद्धं, दास्यामः समहं तव ॥११॥ स प्राहागाभिकालस्या–पेक्षा का प्रविधीयते । अस्थिरेण यतः केना-गामि कालः समीक्षितः६५ यदि सौख्यं कुरुध्वं मे, वल्लभाः स्वजना मम । दत्त जैनेश्वरी दीक्षां,महामोहविनाशिनी ॥१७॥ शुभाशुभानि कार्याण्ये—कांतत्वेन करोति यः । न कोऽपि भूतले तस्य, प्रेरकश्च निषेधकः॥१८॥ स्वीकृत्येति वचस्तस्य, पितृभ्यां स्वजनैरपि । दत्ता जैनेश्वरी दीक्षा, तत्रैवाघनिवारिणी ॥१९॥ वाडवं तं भवोद्विग्नं, क्षणात्समीक्ष्य दीक्षितं । केचनानित्यतां चित्ते, जानंतःप्रात्मन् जमाः॥२०॥ केचित्सम्यक्त्वमूलानि, सद्द्वादशव्रतानि च । सम्यक्त्वं केवलज्ञान-दायक्रं केऽपि केवलं ॥२१॥ केचिद्वैरंगिकाः संतः, सप्तक्षेत्र्यां धनं धनं । वपंतः प्रक्षिपंतश्च, कर्माणि सुखमासदन् ॥२२॥